तस्मै दत्त्वा पाद्यमर्घ्यं आसने चोपवेश्य च
नारद उवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावान्नावबुध्यसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
अमित्रास्तस्य हृष्यन्ति स चापि न निवर्त्तते
देवतासुरगन्धर्वा मानुषा मृगपक्षिणः
जातस्य सर्वभूतस्य कालो मृत्युरुपस्थितः
तव पुत्रो महात्मा वै श्रीमान्नाम श्रियो निधिः
मृत्युकालमनुप्राप्य गतो दिव्यां परां गतिम्
नारदेनैवमुक्ते तु श्रुत्वा स द्विजसत्तमः
भीतो गद्गदया वाचा निःश्वसंश्च मुहुर्मुहुः 187.
अहो मुनिवरश्रेष्ठ अहो धर्मविदां वर
प्रणयात्सौहृदाद्वापि स्नेहाद्वक्ष्यामि तच्छृणु
कृतस्नेहस्य पुत्रार्थे मया संकल्प्य यत्कृतम्
पश्चाद्विसर्जितं पिण्डं दर्भानास्तीर्य भूतले
शोकस्य तु प्रभावेण एतत्कर्म मया कृतम्
नष्टबुद्धिस्मृतिसत्त्वो ह्यज्ञानेन विमोहितः
भयं तीव्रं प्रपश्यामि मुनिशापात्सुदारुणात् न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज
अधर्मं न च पश्यामि धर्मो नैवात्र संशयः
कर्मणा मनसा वाचा पितरं शरणं गतः
ध्यायमानस्ततोऽप्याशु आजगाम तपोधनम् 187.
पुत्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः
पितृयज्ञेति निर्दिष्टा धर्मोऽयं ब्रह्मणा स्वयम्
कृतः स्वयंभुवा पूर्वं श्राद्धं यो वित्त्वित्तमः
श्राद्धकर्मविधिं चैव प्रेतकर्म च या क्रिया
मम चैव प्रसादेन तस्य बुद्धिं ददाम्यहम्
अवश्यमेव गन्तव्यं धर्मराजस्य शासनात्
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
सत्त्वं रजस्तमश्चैव त्रयः शारीरजाः स्मृताः
सात्त्विकं नावबुद्ध्यन्ति कर्मदोषेण तामसः
सात्त्विकं मुक्तियानाय यान्ति वेदविदो जनाः 187.