वर्षाणां च सहस्राणि तपस्तप्त्वा वसुन्धरे
नष्टं च तं सुतं दृष्ट्वा निमेः शोक उपाविशत्
निमिः कृत्वा ततः शोकं विधानात्तत्र माधवि
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम्
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः
यानि कानि च भक्ष्याणि नवश्च रससंभवः
आमन्त्र्य ब्राह्मणं पूर्वं शुचिर्भूत्वा समाहितः
सप्तकृत्वस्ततस्तत्र युगपत्समुपाविशत्
पूजयित्वा तु विप्रान्स सप्तकृत्वश्च सुन्दरि
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् 187.
एवं दिने गते भद्रे ह्यस्तं प्राप्ते दिवाकरे
एकाकी यतचित्तात्मा निराशी निष्परिग्रहः
नात्युच्चं नातिनीचं च चेलाजिनकुशोत्तरम्
उपविश्यासनेऽयुञ्जद्योगमात्मविशुद्धये
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
संयम्य मयि चित्तं यो युक्त आसीत मत्परः
एवं निवृत्तसंध्यायां ततो रात्रिरुपागता
कृत्वा तु पिण्ड संकल्पं पश्चात्तापं चकार ह
निवापकर्म ह्यशुचि पुत्रार्थे विनियोजितम्
कथं ते मुनयः शापात्प्रदहेयुर्न मामिति 187.
किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः
पूर्वसन्ध्यानु सम्प्राप्ता उदिते च दिवाकरे
पुनश्चिन्तां प्रपन्नः स आत्रेयो ह्यतिदुःखितः
धिग्वयो धिक्च मे कर्म धिग्बलं धिक्च जीवितम्
नरकं पूतिकाख्यातं हृदि दुःखं विदुर्बुधाः
पूजयित्वा तु देवांश्च दत्त्वा दानं त्वनेकशः
पुत्रेण लभते येन पौत्रेण च पितामहाः
पुत्रेण श्रीमता हीनं नाहं जीवितुमुत्सहे
जगाम तापसारण्यमृष्याश्रमविभूषितम्
तत्प्रविश्याश्रमपदं भ्राजमानं स्वतेजसा 187.