मुहूर्त्तं ध्यानमास्थाय भाषितो वचनं मया 187.
एवमुक्तो मया देवि गृह्य तत्र कमण्डलुम्
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः
बाहुभ्यां क्षत्रमुत्पन्नं वैश्या ऊरुविनिःस्सृताः
देवताश्चासुरा देवि जातास्ते ब्रह्मणस्तथा
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः
दित्यां च जनिताः पुत्रा असुराः सुरशत्रवः
तेजसा भास्कराकाराः सर्वे शास्त्रविदो द्विजाः
निमेस्तु वंशसम्भूतो आत्रेय इति विश्रुतः
शीर्णपर्णाम्बुभक्षश्च शिशिरे च जलेशयः 187.
वर्षाणां च सहस्राणि तपस्तप्त्वा वसुन्धरे
नष्टं च तं सुतं दृष्ट्वा निमेः शोक उपाविशत्
निमिः कृत्वा ततः शोकं विधानात्तत्र माधवि
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम्
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः
यानि कानि च भक्ष्याणि नवश्च रससंभवः
आमन्त्र्य ब्राह्मणं पूर्वं शुचिर्भूत्वा समाहितः
सप्तकृत्वस्ततस्तत्र युगपत्समुपाविशत्
पूजयित्वा तु विप्रान्स सप्तकृत्वश्च सुन्दरि
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् 187.
एवं दिने गते भद्रे ह्यस्तं प्राप्ते दिवाकरे
एकाकी यतचित्तात्मा निराशी निष्परिग्रहः
नात्युच्चं नातिनीचं च चेलाजिनकुशोत्तरम्
उपविश्यासनेऽयुञ्जद्योगमात्मविशुद्धये
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
संयम्य मयि चित्तं यो युक्त आसीत मत्परः
एवं निवृत्तसंध्यायां ततो रात्रिरुपागता
कृत्वा तु पिण्ड संकल्पं पश्चात्तापं चकार ह
निवापकर्म ह्यशुचि पुत्रार्थे विनियोजितम्
कथं ते मुनयः शापात्प्रदहेयुर्न मामिति 187.