इति श्रीवराहपुराणे प्रागितिहासे भगवच्छास्त्रे रौप्यसौवर्णार्चालिंगादिस्थापनसंख्यादिकं नाम षडशीत्यधिकशततमोऽध्यायः
अथ सृष्टिपितृयज्ञौ एवं नारायणाच्छ्रुत्वा सा मही संशितव्रता
धरण्युवाच एकं मे परमं गुह्यं तद्भवान्वक्तुमर्हति
पितृयज्ञस्य माहात्म्यं सोमदत्तो नराधिपः
को गुणः पितृयज्ञस्य कथमेव प्रयुज्यते
एतदिच्छाम्यहं श्रोतुं विस्तरेण वदस्व मे साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि
मोहितासि वरारोहे भाराक्रान्ता वसुन्धरे
कथयिष्यामि ते ह्येवं श्राद्धोत्पत्तिविनिश्चयम्
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते
सोऽहं च शेषपर्यङ्के एकश्चैव पराङ्मुखः
निद्रां मायामयीं कृत्वा जागर्मि च स्वपामि वा 187.
युगं युगसहस्राणि यास्यन्ति च गतानि च
धारितं मम सुश्रोणि दिवा पंचशतानि च
यन्मां पृच्छसि वै ज्ञातुमात्मानं च यशस्विनि
क्रोधहेतोर्मया सृष्ट ईश्वरोऽसुरनाशनः
एवं त्रयो वयं देवाः कृत्वा ह्येकार्णवां महीम्
सर्वं तज्जलपूर्णं तु न चाज्ञायत किञ्चन
तिष्ठाम वटवृक्षेऽहं मायया बालरूपधृक्
वारयामि वरारोहे जानासि त्वं धरे शुभे
विनिस्सृतं जलं तत्र मायया तदनन्तरम्
मुहूर्त्तं ध्यानमास्थाय भाषितो वचनं मया 187.
एवमुक्तो मया देवि गृह्य तत्र कमण्डलुम्
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः
बाहुभ्यां क्षत्रमुत्पन्नं वैश्या ऊरुविनिःस्सृताः
देवताश्चासुरा देवि जातास्ते ब्रह्मणस्तथा
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः
दित्यां च जनिताः पुत्रा असुराः सुरशत्रवः
तेजसा भास्कराकाराः सर्वे शास्त्रविदो द्विजाः
निमेस्तु वंशसम्भूतो आत्रेय इति विश्रुतः
शीर्णपर्णाम्बुभक्षश्च शिशिरे च जलेशयः 187.