भूमिरुवाच तासु तिष्ठसि सर्वासु शालग्रामे च सर्वदा
कति पूज्या गृहादौ च अविशेषस्तु पूजने
शिवादिपूजने के वा संख्यातास्तच्च मे वद गृहे लिङ्गद्वयं नार्च्यं शालग्रामत्रयं तथा ।। 186.
द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्यद्वयं तथा
शालग्रामयुगं पूज्यं युग्मेषु द्वितयं न हि
गृहेऽग्निदग्धा भग्ना वा नैव पूज्या वसुन्धरे
शालग्राम शिला भग्ना पूजनीया सचक्रका ।ऽ। खण्डिता स्फुटिता वापि शालग्रामशिला शुभा
शिला द्वादश वै देवि शालग्रामसमुद्भवाः
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम्
सर्वैर्वर्णैस्तु सम्पूज्याः प्रतिमाः सर्वदेवताः
शालग्रामो न स्पृष्टव्यो हीनवर्णैर्वसुन्धरे
मोहाद्यः संस्पृशेच्छूद्रो योषिद्वापि कदाचन 186.
यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे
चरणामृतपानेन सर्वपापक्षयो भवेत्
शालग्रामशिलायोगात्पावनं तद्भवेत्सदा
सुवर्णसहितां तस्य यत्पुण्यं तच्छृणुष्व मे
ससमुद्रा भवेद्दत्ता सत्पात्राय वसुन्धरे पूजाफलं न शक्नोति वक्तुं वर्षशतैरपि
एतत्ते कथितं गुह्यं प्रतिमा स्थापनं प्रति
पूजनादौ विधिश्चापि किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे प्रागितिहासे भगवच्छास्त्रे रौप्यसौवर्णार्चालिंगादिस्थापनसंख्यादिकं नाम षडशीत्यधिकशततमोऽध्यायः
अथ सृष्टिपितृयज्ञौ एवं नारायणाच्छ्रुत्वा सा मही संशितव्रता
धरण्युवाच एकं मे परमं गुह्यं तद्भवान्वक्तुमर्हति
पितृयज्ञस्य माहात्म्यं सोमदत्तो नराधिपः
को गुणः पितृयज्ञस्य कथमेव प्रयुज्यते
एतदिच्छाम्यहं श्रोतुं विस्तरेण वदस्व मे साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि
मोहितासि वरारोहे भाराक्रान्ता वसुन्धरे
कथयिष्यामि ते ह्येवं श्राद्धोत्पत्तिविनिश्चयम्
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते
सोऽहं च शेषपर्यङ्के एकश्चैव पराङ्मुखः