धनजन रूप्यस्वर्ण अनन्ताय नम इति अर्चयित्वा यथान्यायं पूर्वोक्तविधिना नरः
नील वस्त्राणि मे दद्यात्प्रियाणि मम भूषणम्
नमो नारायणायेति उक्त्वा काममुदाहरेत् ।।186.
मन्त्रः - योऽसौ भवांश्चन्द्ररश्मिप्रकाशः शंखेन कुन्देन समानवर्णः
वेषः सुवेषः अनन्तः अमरः मारणः कारणः सुलभः दुर्ल्लभः श्रेष्ठः सुवर्चा इति ततो मे प्रापणं दद्याद्भक्तियुक्तेन चेतसा
नमो नारायणायेति इमं मन्त्रमुदाहरेत्
प्रापणं गृह्यतां देव अनन्त पुरुषोत्तम
सर्वलोकहितार्थाय शान्तिपाठमुदाहरेत्
रात्रिश्चैव तु सन्ध्ये द्वे नक्षत्राणि ग्रहा दिशः
अचल चंचल सचल खेचल प्रचल अरविन्दप्रभ उद्भव चेति नमः संस्थापितानां वासुदेव इति पूज्य भागवतांस्तत्र यथाविभवशक्तितः
ब्राह्मणान्भोजयेत्तत्र गुरुं मन्त्रेण पूजयेत्
ब्राह्मणान्स्वजनं चैव अभिवाद्य कृताञ्जलिः
ततो गुरुं च संपूज्य दानमानादिभिर्विभुम् 186.
जलस्य बिन्दवो येऽन्नभोजनान्ते पतन्ति हि
य एतेन विधानेन पूजयेन्मतिमान्नरः
अनेन विधिना देवि रौप्यार्च्चास्थापनं मम
यथैव राजती कुर्यात्तथैव च सुवर्णिकाम्
यत्फलं दारुशैलादिनाम्ना कांस्यादिराजते
कुलानि तारयेत्सुभ्रु अयुतान्येकविंशतिम्
एतत्ते कथितं भूमे यत्त्वया परिपृच्छितम्
भूमिरुवाच तासु तिष्ठसि सर्वासु शालग्रामे च सर्वदा
कति पूज्या गृहादौ च अविशेषस्तु पूजने
शिवादिपूजने के वा संख्यातास्तच्च मे वद गृहे लिङ्गद्वयं नार्च्यं शालग्रामत्रयं तथा ।। 186.
द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्यद्वयं तथा
शालग्रामयुगं पूज्यं युग्मेषु द्वितयं न हि
गृहेऽग्निदग्धा भग्ना वा नैव पूज्या वसुन्धरे
शालग्राम शिला भग्ना पूजनीया सचक्रका ।ऽ। खण्डिता स्फुटिता वापि शालग्रामशिला शुभा
शिला द्वादश वै देवि शालग्रामसमुद्भवाः
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम्