वेदोपवेद ऋग्वेद यजुर्वेद सामवेद अथर्वणवेद संस्तुत इति नमः परम्परायेति पश्चान्मे प्रापणं दद्यान्मन्त्रवद्विधिपूर्वकम्
दत्त्वा प्रापणकं तत्र दद्यादाचमनं ततः
विद्याः सर्वे ब्रह्म च ब्राह्मणाश्च ग्रहाः सर्वे सरितः सागराश्च
आयाम यम कामदम वाम ॐ नमः पुरुषोत्तमायेति सूत्रम् अभिवादनं स्तुतिं चापि कृत्वा भागवतांश्छुचीन्
सम्पूज्य ब्राह्मणान्पश्चाद्भोजयेत् पायसादिभिः
दद्यादभ्युक्षणं मह्यं तेनाहं पूजितोऽभवम्
अङ्गुलीयकवासोभिर्दानसंमाननादिभिः 185.
तेनाहं पूजितो देवि एवमेतन्न संशयः
नाशयिष्यामि तं देवि सत्यमतेद्ब्रवीमि ते
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति
तारितं च कुलं तेन पितृजं मातृजं तथा
कथयिष्यामि ते ह्येवं रौप्येण स्थापनं मम
इति श्रीवराहपुराणे कांस्यप्रतिमास्थापनविधिर्नाम पंचाशीत्यधिकशततमोऽध्यायः
श्रीवराह उवाच अश्लिष्टां चैव निर्दोषां सर्वतः परिनिष्ठिताम्
चन्द्रपाण्डुरसङ्काशां सुश्लक्ष्णां निर्व्रणां शुभाम्
ईदृशीं प्रतिमां कृत्वा मम कर्मपरायणः
स्तुतिभिर्मङ्गलैश्चैव मम वेश्मन्युपानयेत्
मन्त्रः- ॐ यः सर्वलोकेष्वपि सर्वमर्घ्यं पूज्यश्च मान्यश्च दिवौकसामपि यो राजते यज्ञपतिश्च यज्ञे सूर्योदये मम कर्माग्निहोत्रम्
मन्दश्चेति आदिमध्यस्वरूपायेति सुस्नातोऽलंकृतश्चैव स्थापयेत्तामुदड्मुखः
आश्लेषासु च नक्षत्रे राशौ कर्कटके स्थिते
तत्राधिवासनं कुर्याद्विधिवन्मन्त्रपूर्वकम्
सर्वौषधीसमायुक्ताः सहकारविभूषिताः
गुरोस्तु वचनाद्देवि मनोज्ञान्सुखशीतलान् 186.
मन्त्रः - योऽसौ भवान् सर्वलोकैककर्त्ता सर्वाध्यक्षः सर्वरूपैकरूपः
नमोऽनन्तायेति दिशासु च प्रसन्नासु द्वारमूलमुपानयेत्
एवं संस्थापनं कृत्वा मम कर्मानुसारिणः
अभिषिच्य ततः पश्चात्स्थापयेत विधानतः
मन्त्रः - गङ्गादिभ्यो नदीभ्यश्च सागरेभ्यो मया हृतम्
एवं स्नाप्य विधानेन गृहस्याभ्यन्तरं नयेत्
मन्त्रः – वेदैर्वेद्यो वेदविद्भिश्च पूज्यो यज्ञात्मको यज्ञफलप्रदाता