योऽसौ भवान्सर्वयज्ञेषु पूज्यो ध्येयो गोप्ता विश्वकामो महात्मा
अर्घ्यं दत्त्वा यथान्यायं स्थापयेत्तदुदङ्मुखः
चतुरः कलशांश्चैव पंचगव्यसमन्वितान्
चतुरः कलशान्पूर्य स्नानार्थं मे समन्त्रकम्
कुर्यात्संस्थापनं तत्र ममार्च्चायास्तु पूजकः
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत्
मन्त्रः- आदिर्भवान्ब्रह्मयुगान्तकल्पः सर्वेषु कालेष्वपि कल्पभूतः 185.
विकार अविकार अकार सकार शकार षकार स्वच्छन्दरूपः क्षरमक्षरं धृतिरूपः अरूपमिति नमः पुरुषोत्तमायेति अश्वेन च मुहूर्तेन प्राप्ते मूलेषु चोत्तरे
पूर्वोक्तेषु विधानेन मम शास्त्रानुदर्शिनाम्
सर्वशान्त्युदकं गृह्य सर्वगन्धफलानि च
मन्त्रः- ॐ इन्द्रो भवांस्त्वं च यमः कुबेरो जलेश्वरः सोमबृहस्पती च
तथैव सर्वौषधयो जलानि वायुश्च पृथ्वी च स वायुसारथिः
अनेनैव तु मन्त्रेण कृत्वा कर्म सुपुष्कलम्
एकान्ते स्नापयेन्मां च जलैः पूर्वाभिमन्त्रितैः
गात्रसंशोधनार्थाय इमं मन्त्रमुदाहरेत्
मन्त्रः – सरांसि ये ते च समस्तसागरा नद्यश्च तीर्थानि च पुष्कराणि
एवं मां स्नाप्य विधिना मम कर्मानुसारिणः 185.
गन्धधूपादिभिश्चैव यथाविभवशक्तितः
तान्यानयित्वा वस्त्राणि ममाग्रे स्थापयेन्नरः
मन्त्रः- वस्त्राणि देवेन्द्र मया हृतानि सूक्ष्माणि सौम्यानि सुखावहानि
वेदोपवेद ऋग्वेद यजुर्वेद सामवेद अथर्वणवेद संस्तुत इति नमः परम्परायेति पश्चान्मे प्रापणं दद्यान्मन्त्रवद्विधिपूर्वकम्
दत्त्वा प्रापणकं तत्र दद्यादाचमनं ततः
विद्याः सर्वे ब्रह्म च ब्राह्मणाश्च ग्रहाः सर्वे सरितः सागराश्च
आयाम यम कामदम वाम ॐ नमः पुरुषोत्तमायेति सूत्रम् अभिवादनं स्तुतिं चापि कृत्वा भागवतांश्छुचीन्
सम्पूज्य ब्राह्मणान्पश्चाद्भोजयेत् पायसादिभिः
दद्यादभ्युक्षणं मह्यं तेनाहं पूजितोऽभवम्
अङ्गुलीयकवासोभिर्दानसंमाननादिभिः 185.
तेनाहं पूजितो देवि एवमेतन्न संशयः
नाशयिष्यामि तं देवि सत्यमतेद्ब्रवीमि ते
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति