सर्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः । विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ।। १७.
अग्निस्तथाश्विनौ गौरी गजवक्त्रभुजंगमाः । कार्तिकेयस्तथादित्यो मातरो दुर्गया सह ।। १७.
दिशो धनपतिर्विष्णुर्यमो रुद्रः शशी तथा । पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ।। १७.
हिरण्यगर्भस्य तनौ सर्वं एव समुद्भवाः । पृथक्पृथक् ततो गर्वं वहमानाः समन्ततः ।। १७.
अहं योग्यस्त्वहं याज्य इति तेषां स्वनो महान् । श्रूयते देवसमितौ सागरक्षुब्धसन्निभः ।। १७.
तेषां विवदमानानां वह्निरुत्थाय पार्थिव । उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ।। १७.
प्राजापत्यमिदं नूनं शरीरं मद्विनाकृतम् । विनाशमुपपद्येत यतो नाहं महानहम् ।। १७.
एवमुक्त्वा शरीरं तु त्यक्त्वा वह्निर्विनिर्ययौ । निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्यते ।। १७.
ततोऽश्विनौ मूर्तिमन्तौ प्राणापानौ शरीरगौ । आवां प्रधानावित्येवमूचतुर्याज्यसत्तमौ ।। १७.
एवमुक्त्वा शरीरं तु विहाय क्वचिदास्थितौ । तयोरपि क्षयं कृत्वा क्षेत्री तत्पुरमास्थितः ।। १७.
ततो वागब्रबीद् गौरी प्राधान्यं मयि संस्थितम् । साऽप्येवमुक्त्वा क्षेत्रात् तु निश्चक्राम बहिः शुभा ।। १७.
तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत । ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत् तदा ।। १७.
न मया रहितं किञ्चिच्छरीरं स्थायि दूरतः । कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ।। १७.
पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् । विनाकाशाख्यतत्त्वेन तथापि न विशीर्यते ।। १७.
सुषिरैस्तु विहीनं तु दृष्ट्वा क्षेत्रं व्यवस्थितम् । शरीरधातवः सर्वे ते ब्रूयुर्वाक्यमेव हि ।। १७.
अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् । भवतीत्येवमुक्त्वा ते जहुः सर्वे शरीरिणः ।। १७.
तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते । तं दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहंकारः प्रकीर्तितः ।। १७.
मया विना शरीरस्य संभूतिरपि नेष्यते । एवमुक्त्वा शरीरात् तु सोऽभ्यपेतः पृथक् स्थितः ।। १७.
तेनाक्षतेन तत्क्षेत्रं विना मुक्तवदास्थितम् । तं दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्तितः ।। १७.
मया विना कथं क्षेत्रमिमं क्षणमपीष्यते । एवमुक्त्वा प्रयातः स तच्छरीरं न शीर्यते ।। १७.
ततः कामादिरुत्थाय गणो मातृविसंज्ञितः । न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः । एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्यते ।। १७.
ततो मायाऽब्रवीत्कोपात् सा च दुर्गा प्रकीर्तिता । न मयाऽस्य विना भूतिरित्युक्त्वाऽन्तर्दधे पुनः ।। १७.
ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् । नास्माभी रहितं कार्यं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात् तदा ।। १७.
ततो धनपतिर्वायुर्मय्यपेते क्व संभवः । शरीरस्येति सोप्येवमुक्त्वा मूर्धानगोऽभवत् ।। १७.
ततो विष्णुर्मनो ब्रूयान्नायं देहो मया विना । क्षणमप्युत्सहेत् स्थातुमित्युक्त्वाऽन्तर्दधे पुनः ।। १७.
ततो धर्मोऽब्रवीत् सर्वमिदं पालितवानहम् । इदानीमप्युपगते कथमेतद्भविष्यति ।। १७.
एवमुक्त्वा गतो धर्मस्तच्छरीरं न शीर्यते । ततोब्रवीन्महादेवः अव्यक्तो भूतनायकः ।। १७.
महत्संज्ञो मया हीनं शरीरं नो भवेद् यथा । एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्यते ।। १७.
तं दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः । प्रगतैरेभिरेतच्च शरीरं शीर्यते ध्रुवम् । एवमुक्त्वा तु ते देहं त्यक्त्वाऽन्तर्द्धानमागताः ।। १७.
अग्निः प्राणो अपानश्च आकाशं सर्वधातवः । क्षेत्रं तद्वदहंकारो भानुः कामादयो मया । काष्ठा वायुर्विष्णुर्धर्म शम्भुस्तथेन्द्रियार्थकाः ।। १७.