सुगन्धद्रव्यसंयुक्तं जलं चादाय पूजकः
मन्त्रः – ॐ योऽसौ भवान्सर्ववरः प्रभुश्च माया बलो योगबलप्रधानः
ज्वलन पवनतुल्यावन भावन तपन श्वासन स्वयं तिष्ठ भगवन् पुरुषोत्तम ओम् ततो द्वारमुपागम्य वेश्म शीघ्रं प्रवेशयेत् 184.
मन्त्रेणानेन मां स्थाप्य गन्धपुष्पादिदीपकैः
स्थापनामन्त्रः – ॐ प्रकाशप्रकाश जगत्प्रकाश विज्ञानमयानन्दमय त्रैलोक्यनाथात्रागच्छ इह सन्तिष्ठतां भवान्पुरुषोत्तम मामव इति शुक्लवस्त्रं समादाय इमं मन्त्रमुदाहरेत्
मन्त्रः- ॐ शुद्धस्त्वमात्मा पुरुषः पुराणो जगत्सु तत्त्वं सुरलोकनाथ
वस्त्रैर्विभूषितं कृत्वा मम कर्मपरायणः
अर्च्चनालंकृतं कृत्वा गन्धधूपादिभिः प्रभुम्
दत्त्वा स्वादु च नैवेद्यं शान्तिपाठं तु कारयेत्
शान्तिर्भवतु राज्ञां च सराष्ट्राणां तथा विशाम्
शान्तिर्भवतु देवेश त्वत्प्रसादान्ममाखिला
गुरुं भागवतं चैवमर्चयेच्च यथाविधि
विशेषेण गुरुं पूज्य वस्त्रालंकारभोजनैः 184.
गुरुर्यस्य न तुष्टो वै तस्माद्दूरतरो ह्ययम्
तारितं च कुलं तेन नवभिः सप्तविंशतिः
कथयिष्यामि ते ह्येवं कार्त्स्न्येन प्रतिमार्च्चनम् तावद्वर्षसहस्राणि मम लोके महीयते
इति श्रीवराहपुराणे ताम्रार्चास्थापनं नाम चतुरशीत्यधिकशततमोऽध्यायः
अथ कांस्यार्चास्थापनम् कांस्येन प्रतिमां कृत्वा सुरूपां सुप्रतिष्ठिताम्
ज्येष्ठायां चैव नक्षत्रे मम वेश्मन्युपानयेत्
अर्घ्यं गृह्य यथान्यायमिमं मन्त्रमुदाहरेत्
योऽसौ भवान्सर्वयज्ञेषु पूज्यो ध्येयो गोप्ता विश्वकामो महात्मा
अर्घ्यं दत्त्वा यथान्यायं स्थापयेत्तदुदङ्मुखः
चतुरः कलशांश्चैव पंचगव्यसमन्वितान्
चतुरः कलशान्पूर्य स्नानार्थं मे समन्त्रकम्
कुर्यात्संस्थापनं तत्र ममार्च्चायास्तु पूजकः
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत्
मन्त्रः- आदिर्भवान्ब्रह्मयुगान्तकल्पः सर्वेषु कालेष्वपि कल्पभूतः 185.
विकार अविकार अकार सकार शकार षकार स्वच्छन्दरूपः क्षरमक्षरं धृतिरूपः अरूपमिति नमः पुरुषोत्तमायेति अश्वेन च मुहूर्तेन प्राप्ते मूलेषु चोत्तरे
पूर्वोक्तेषु विधानेन मम शास्त्रानुदर्शिनाम्
सर्वशान्त्युदकं गृह्य सर्वगन्धफलानि च