श्रवणे चैव नक्षत्रे कुर्यात्तस्याधिवासनम्
पंचगव्यं च गन्धं च वारिणा सह मिश्रयेत्
मन्त्रः- योऽसौ भवान्सर्वजगत्प्रकर्त्ता यस्य प्रसादेन भवन्ति लोकाः
कारणकारणं ह्युग्रतेजसं द्युतिमन्तं महापुरुषं नमो नमः अनेनैव तु मन्त्रेण स्थापयेन्मां समाहितः चतुरस्तान्गृहीत्वा च इमं मन्त्रमुदाहरेत्
मन्त्रः – ॐ वरुणं समुद्रो लब्ध्वा संपूजितो ह्यात्ममतिप्रसन्नः अग्निश्च भूमिश्च रसाश्च सर्वे भवन्ति यस्मात्सततं नमस्ये
एवमास्नाप्य विधिवन्मम कर्मपरायणः 183.
अगुरुं चैव धूपं च सकर्पूरं सकुङ्कुमम्
धूपं दत्त्वा यथान्यायं पीतं वस्त्रं तु दापयेत्
मन्त्रः- वस्त्रेण पीतेन सदा प्रसन्नो यस्मिन्प्रसन्ने तु जगत्प्रसन्नम्
तत एतेन मंत्रेण वस्त्रं दद्याद्यथोचितम्
पूर्वोक्तेन विधानेन दद्यात्प्रापणकं नरः
मन्त्रः- शान्तिर्भवतु देवानां ब्रह्म क्षत्रविशां तथा
देवो वर्षतु पर्जन्यः पृथिवी सस्यपूरिता
पश्चाद्भागवतान्पूज्य ततो ब्राह्मणपूजनम्
अच्छिद्रं वाच्य पश्चाच्च कुर्यादेवं विसर्जनम्
पूजयेत्तांश्च विधिवद्वस्त्रालंकारभूषणैः 183.
यो गुरुं पूजयेद्भक्त्या विधिदृष्टेन कर्मणा
तुष्टो ददाति कृच्छ्रेण ग्राममात्रं नराधिपः
तथैव मम शास्त्रेषु ममैव वचनाच्छुभे
य एतेन विधानेन कुर्यात्संस्थापनं मम
पूजायां मम मार्गेषु पतन्ति जलबिन्दवः
एवं ते कथितं भूमे स्थापनं मृन्मयस्य तु
इति श्रीवराहपुराणे मृन्मयार्च्चास्थापनं नाम त्र्यशीत्यधिकशततमोऽध्यायः
अथ ताम्रार्चास्थापनम् ताम्रेण प्रतिमां कृत्वा सुरूपां चैव भास्वराम्
ततो वेश्मन्युपागम्य स्थापयित्वा उदङ्मुखः
जलं च सर्वगन्धेन पंचगव्येन मिश्रितम्
मन्त्रः- योऽसौ भवांस्तिष्ठति सारभूतः त्वं ताम्रके तिष्ठसि नेत्रभूतः
अनेनैव तु मन्त्रेण स्थापयित्वा यशस्विनि
व्यतीतायां च शर्वर्यामुदिते च दिवाकरे
ब्राह्मणा वेदपाठांश्च कुर्युस्तत्र समागताः