ताम्रेण कांस्यरौप्येण सौवर्णत्रपु रीतिभिः
अर्चनं त्वपरं वेद्यां मम कमर्परिग्रहात्
गृहं चालोच्य कश्चिन्मां पूजयेत्कामनापरः
भूमे एवं विजानीहि स्थापितोऽहं न संशयः
मन्त्रैर्वा विधिपूर्वेण यो मे कर्माणि कारयेत्
तत्तत्फलं प्रयच्छामि प्रसन्नेनान्तरात्मना 183.
मद्भक्तः सततं नित्यं कर्मणा परिवेष्टितः
दद्याज्जलाञ्जलिं मह्यं तेन मे प्रीतिरुत्तमा
मह्यं चिन्तयतो नित्यं निभृतेनान्तरात्मना
एतत्ते सर्वमाख्यातं सुगोप्यं च प्रयत्नतः
श्रवणे चैव नक्षत्रे कुर्यात्तस्याधिवासनम्
पंचगव्यं च गन्धं च वारिणा सह मिश्रयेत्
मन्त्रः- योऽसौ भवान्सर्वजगत्प्रकर्त्ता यस्य प्रसादेन भवन्ति लोकाः
कारणकारणं ह्युग्रतेजसं द्युतिमन्तं महापुरुषं नमो नमः अनेनैव तु मन्त्रेण स्थापयेन्मां समाहितः चतुरस्तान्गृहीत्वा च इमं मन्त्रमुदाहरेत्
मन्त्रः – ॐ वरुणं समुद्रो लब्ध्वा संपूजितो ह्यात्ममतिप्रसन्नः अग्निश्च भूमिश्च रसाश्च सर्वे भवन्ति यस्मात्सततं नमस्ये
एवमास्नाप्य विधिवन्मम कर्मपरायणः 183.
अगुरुं चैव धूपं च सकर्पूरं सकुङ्कुमम्
धूपं दत्त्वा यथान्यायं पीतं वस्त्रं तु दापयेत्
मन्त्रः- वस्त्रेण पीतेन सदा प्रसन्नो यस्मिन्प्रसन्ने तु जगत्प्रसन्नम्
तत एतेन मंत्रेण वस्त्रं दद्याद्यथोचितम्
पूर्वोक्तेन विधानेन दद्यात्प्रापणकं नरः
मन्त्रः- शान्तिर्भवतु देवानां ब्रह्म क्षत्रविशां तथा
देवो वर्षतु पर्जन्यः पृथिवी सस्यपूरिता
पश्चाद्भागवतान्पूज्य ततो ब्राह्मणपूजनम्
अच्छिद्रं वाच्य पश्चाच्च कुर्यादेवं विसर्जनम्
पूजयेत्तांश्च विधिवद्वस्त्रालंकारभूषणैः 183.
यो गुरुं पूजयेद्भक्त्या विधिदृष्टेन कर्मणा
तुष्टो ददाति कृच्छ्रेण ग्राममात्रं नराधिपः
तथैव मम शास्त्रेषु ममैव वचनाच्छुभे
य एतेन विधानेन कुर्यात्संस्थापनं मम