गीतवादित्रघोषेण उत्सवं तत्र कारयेत्
ब्रह्माक्षरसहस्राणि पठतां ब्रह्मवादिनाम्
आगमिष्याम्यहं देवि मन्त्रपाठो मम प्रियः
पुनरावाहनं कुर्यान्मन्त्रेणानेन सुव्रतः
एतेषु भूतेषु च संविधाता आवासितस्तिष्ठति लोकनाथ
अनेनैव तु मन्त्रेण समित्तिलघृतेन च
एवं कृते विधाने भवामि सन्निहितः स्वयम् 182.
पंचगव्यं तत प्राश्य मन्त्रेण विधिपूर्वकम्
ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः
मन्त्रश्च - योऽसौ भवाँल्लक्षणलक्षितश्च लक्ष्म्या च युक्तः सततं पुराणः
तत एतेन मन्त्रेण प्रासादं संप्रवेशयेत्
एवं संस्थापनं कृत्वा दद्यादुद्वर्त्तनं विभोः
एवं चोद्वर्त्तनं कृत्वा इमं मन्त्रमुदाहरेत् प्रवन्दितः कारणं मन्त्रयुक्तः सुस्वागतं तिष्ठ सुलोकनाथ
एवं संस्थापनं कृत्वा गन्धमाल्यैश्च पूजयेत्
मन्त्रः- वस्त्राणि देवेश गृहाण तानि मया सुभक्त्या रचितानि यानि
एवं वस्त्राणि मे दद्याद्विधिदृष्टेन कर्मणा एवं च धूपनं दद्यादिमं मन्त्रमुदीरयेत्
मन्त्रः – असावनादिः पुरुषः पुराणो नारायणः सर्वजगत् प्रधानः 182.
एवं पूजां ततः कृत्वा प्रापणं च निवेदयेत्
पूर्वोक्तेनैव मन्त्रेण दद्यात्प्रापणकं बुधः
शान्तिजापस्ततः कार्यः सर्वकार्यार्थसिद्धिदः बालेषु वृद्धेषु गवाङ्गणेषु कन्यासु शान्तिं च पतिव्रतासु
रोगा विनश्यन्तु च सर्वतश्च कृषीवलानां च कृषिः सदा स्यात्
दीनानाथान्प्रतर्प्याथ यथाविभवशक्तितः
यावन्तो मम गात्रेषु जायन्ते जलबिन्दवः
यो मां संस्थापयेद्भूमे सर्वाहङ्कारवर्जितः
एतत्ते कथितं भद्रे शैलिकास्थापनं मम
इति श्रीवराहपुराणे शैलार्चास्थापनं नाम द्व्यशीत्यधिकशततमोऽध्यायः
अथ मृन्मयार्चास्थापनम् पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
आर्च्चां च मृन्मयीं कृत्वा अस्फुटां चाप्यखण्डिताम्
ईदृशीं प्रतिमां कृत्वा मम कर्मपरायणः
काष्ठानामप्यलाभे तु मृन्मयीं तत्र कारयेत्