दीपकं च ततो दद्याद्बलिं दध्योदनेन च
मन्त्रः- योऽसौ भवान्सर्वजनप्रवीरः सोमाग्नितेजाः सुमतिप्रधानः
प्रवर अयुतवराह जय जय वर्द्धस्व एवंरूपं ततः कृत्वा देवं नारायणं प्रभुम्
ततो वै स्थापयेत्तत्र पूर्वाभिमुखमेव तु
शुक्लयज्ञोपवीती च कृत्वा वै दन्तधावनम्
मन्त्रः – योऽसौ भवांस्तिष्ठति सर्वरूपं मायाबलं सर्वजगत्स्वरूपम्
करणधारणप्रवध्यमुदाहरणमपराजितमजरामर एवं तु स्थापनं कृत्वा शिलायां मम सुन्दरि 182.
यो मां संस्थापयेद्भूमे मम कर्मपरायणः
यावकं पायसं भुक्त्वा अहोरात्रं समापयेत्
पंचगव्यं च गन्धं च वारिणा सह मिश्रयेत्
गीतवादित्रघोषेण उत्सवं तत्र कारयेत्
ब्रह्माक्षरसहस्राणि पठतां ब्रह्मवादिनाम्
आगमिष्याम्यहं देवि मन्त्रपाठो मम प्रियः
पुनरावाहनं कुर्यान्मन्त्रेणानेन सुव्रतः
एतेषु भूतेषु च संविधाता आवासितस्तिष्ठति लोकनाथ
अनेनैव तु मन्त्रेण समित्तिलघृतेन च
एवं कृते विधाने भवामि सन्निहितः स्वयम् 182.
पंचगव्यं तत प्राश्य मन्त्रेण विधिपूर्वकम्
ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः
मन्त्रश्च - योऽसौ भवाँल्लक्षणलक्षितश्च लक्ष्म्या च युक्तः सततं पुराणः
तत एतेन मन्त्रेण प्रासादं संप्रवेशयेत्
एवं संस्थापनं कृत्वा दद्यादुद्वर्त्तनं विभोः
एवं चोद्वर्त्तनं कृत्वा इमं मन्त्रमुदाहरेत् प्रवन्दितः कारणं मन्त्रयुक्तः सुस्वागतं तिष्ठ सुलोकनाथ
एवं संस्थापनं कृत्वा गन्धमाल्यैश्च पूजयेत्
मन्त्रः- वस्त्राणि देवेश गृहाण तानि मया सुभक्त्या रचितानि यानि
एवं वस्त्राणि मे दद्याद्विधिदृष्टेन कर्मणा एवं च धूपनं दद्यादिमं मन्त्रमुदीरयेत्
मन्त्रः – असावनादिः पुरुषः पुराणो नारायणः सर्वजगत् प्रधानः 182.
एवं पूजां ततः कृत्वा प्रापणं च निवेदयेत्
पूर्वोक्तेनैव मन्त्रेण दद्यात्प्रापणकं बुधः
शान्तिजापस्ततः कार्यः सर्वकार्यार्थसिद्धिदः बालेषु वृद्धेषु गवाङ्गणेषु कन्यासु शान्तिं च पतिव्रतासु