मखाग्निधूमैरुदिताग्निहोमै- स्ततः समन्तात् गृहमेधिभिर्द्विजैः । सिंहैरिवाधर्म्मकरी विदारितः स तीक्ष्णदंष्ट्रैर्वरमत्तकेसरैः ।। १७.
एवं स राजा विविधानुपायान् वराश्रमे प्रेक्षमाणो विवेश । तस्मिद् प्रविष्टे तु स तीव्रतेजा महातपाः पुण्यकृतां प्रधानः । दृष्टो यथा भानुरनन्तभानुः कौश्यासने ब्रह्मविदां प्रधानः ।। १७.
दृष्ट्वा स राजा विजयी मृगाणां मतिं विसस्मार मुनेः प्रसङ्गात् । चकार धर्मं प्रति मानसं सो अनुत्तमं प्राप्य नृपो मुनिं सः ।। १७.
स मुनिस्तं नृपं दृष्ट्वा प्रजापालमकल्मषम् । अभ्यागतक्रियां चक्रे आसनस्वागतादिभिः ।। १७.
ततः कृतासनो राजा प्रणम्य ऋषिपुङ्गवम् । पप्रच्छ वसुधे प्रश्नमिमं परमदुर्लभम् ।। १७.
भगवन् दुःखसंसारमग्नैः पुम्भिस्तितीर्षुभिः । यत्कार्यं तन्ममाचक्ष्व प्रणते शंसितव्रत ।। १७.
महातपा उवाच । संसारार्णवमज्जमानमनुजैः पोतः स्थिरोऽतिध्रुवः कार्यः पूजनदानहोमविविधैर्यज्ञैः समं ध्यायनैः । कीलैः कीलितमोक्षभिः सुरभटैरूर्ध्वं महारज्जुभिः प्राणाद्यैरधुना कुरुष्व नृपते पोतं त्रिलोकेश्वरम् ।। १७.
नारायणं नरकहरं सुरेशं भक्त्या नमस्कुर्वति यो नृपेश । स वीतशोकः परमं विशोकं प्राप्नोति विष्णोः पदमव्ययं तत् ।। १७.
नृप उवाच । भगवन् सर्वधर्मज्ञ कथं विष्णुः सनातनः । पूज्यते मोक्षमिच्छद्भिः पुरुषैर्वद तत्त्वतः ।। १७.
महातपा उवाच । श्रृणु राजन् महाप्राज्ञ यथा विष्णुः प्रसीदति । पुरुषाणां तथा स्त्रीणां सर्वयोगीश्वरो हरिः ।। १७.
सर्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः । विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ।। १७.
अग्निस्तथाश्विनौ गौरी गजवक्त्रभुजंगमाः । कार्तिकेयस्तथादित्यो मातरो दुर्गया सह ।। १७.
दिशो धनपतिर्विष्णुर्यमो रुद्रः शशी तथा । पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ।। १७.
हिरण्यगर्भस्य तनौ सर्वं एव समुद्भवाः । पृथक्पृथक् ततो गर्वं वहमानाः समन्ततः ।। १७.
अहं योग्यस्त्वहं याज्य इति तेषां स्वनो महान् । श्रूयते देवसमितौ सागरक्षुब्धसन्निभः ।। १७.
तेषां विवदमानानां वह्निरुत्थाय पार्थिव । उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ।। १७.
प्राजापत्यमिदं नूनं शरीरं मद्विनाकृतम् । विनाशमुपपद्येत यतो नाहं महानहम् ।। १७.
एवमुक्त्वा शरीरं तु त्यक्त्वा वह्निर्विनिर्ययौ । निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्यते ।। १७.
ततोऽश्विनौ मूर्तिमन्तौ प्राणापानौ शरीरगौ । आवां प्रधानावित्येवमूचतुर्याज्यसत्तमौ ।। १७.
एवमुक्त्वा शरीरं तु विहाय क्वचिदास्थितौ । तयोरपि क्षयं कृत्वा क्षेत्री तत्पुरमास्थितः ।। १७.
ततो वागब्रबीद् गौरी प्राधान्यं मयि संस्थितम् । साऽप्येवमुक्त्वा क्षेत्रात् तु निश्चक्राम बहिः शुभा ।। १७.
तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत । ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत् तदा ।। १७.
न मया रहितं किञ्चिच्छरीरं स्थायि दूरतः । कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ।। १७.
पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् । विनाकाशाख्यतत्त्वेन तथापि न विशीर्यते ।। १७.
सुषिरैस्तु विहीनं तु दृष्ट्वा क्षेत्रं व्यवस्थितम् । शरीरधातवः सर्वे ते ब्रूयुर्वाक्यमेव हि ।। १७.
अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् । भवतीत्येवमुक्त्वा ते जहुः सर्वे शरीरिणः ।। १७.
तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते । तं दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहंकारः प्रकीर्तितः ।। १७.
मया विना शरीरस्य संभूतिरपि नेष्यते । एवमुक्त्वा शरीरात् तु सोऽभ्यपेतः पृथक् स्थितः ।। १७.
तेनाक्षतेन तत्क्षेत्रं विना मुक्तवदास्थितम् । तं दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्तितः ।। १७.
मया विना कथं क्षेत्रमिमं क्षणमपीष्यते । एवमुक्त्वा प्रयातः स तच्छरीरं न शीर्यते ।। १७.