इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरावर्णनं नामाशीत्यधिकशततमोऽध्यायः
अथ मधुकाष्ठाप्रतिमायामर्चास्थापनम् एवं श्रुत्वा परं स्थानं सा मही संशितव्रता
संश्रुत्य विस्मयाविष्टा प्रत्युवाच वसुन्धरा अहो क्षेत्रप्रभावो वै यस्त्वया समुदाहृतः
यं श्रुत्वा देवतत्त्वेन जातास्मि विगतज्वरा
मम प्रीत्यर्थमखिलं तद्विष्णो वक्तुमर्हसि
ताम्रे कांस्ये च रौप्ये च तिष्ठसि स्थापितः कथम्
ब्रह्मचारी समासाद्य कथं तिष्ठसि माधव
कथं तिष्ठसि वा सव्ये भित्तिसंस्थो जनार्दनः
एवं धरावचः श्रुत्वा प्रत्युवाचादिसूकरः प्रतिमा यस्य कर्त्तव्या तदानीय वसुन्धरे
प्रतिमां कारयेच्चैव लक्षणोक्तां वसुन्धरे
ततः सम्पूजयेद्देवि संसारभवमुक्तये 181.
कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनार्च्चयेत्
कर्पूरं कुंकुमं चैव त्वचं चागुरुमेव च
एतैर्विलेपनं दद्यादर्चितस्तु विचक्षणः
विधानपूर्वकं चैव मंगल्यं चैव पायसम्
एवं सर्वं ततो दद्यात्पूजायां विहितं शुभम्
प्राणायामं ततः कृत्वा इमं मन्त्रमुदीरयेत्
ससम्भ्रमं लोके सुप्रतीतस्तिष्ठ काष्ठे स त्वं भुवि
पुनः प्रदक्षिणीकृत्य शुद्धैर्भागवतैः सह
नोर्द्ध्वं न तिर्यगीक्षेत कामक्रोधविवर्जितः
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा ।। 181.
मन्त्रः – योऽसौ भवान्सर्वजनप्रवीर गतिः प्रभुस्त्वं वससि ह्यमोघ
सर्वामेवं ततः कृत्वा मम संस्थापनक्रियाम्
गन्धमाल्यैरर्चयित्वा उपलेपैश्च भोजनैः
एतत्कर्मविधानेन मधुकाष्ठस्य सुन्दरि
यस्त्वनेन विधानेन अर्च्चां काष्ठस्य स्थापयेत्
इति श्रीवराहपुराणे भगवच्छास्त्रे मधुकाष्ठायां प्रतिमार्च्चास्थापनं नाम एकाशीत्यधिकशततमोऽध्यायः
अथ शैलार्च्चास्थापनम् पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
सुरूपां च शिलां दृष्ट्वा निःशल्यां सुपरीक्षिताम्
शीघ्रमालिख्य तं तत्र श्वेतवर्तिकया नरः