दृष्टो भवद्भिः सर्वं यदस्माकं सुदुरत्ययम्
इति विश्राव्य वचनं राजानं स ऋषिं जनान्
आरुह्य वरयानं ते गताः स्वर्गं वृता सुरैः ततः स राजशार्दूलः सगणः परिवारकैः
दृष्ट्वा तीर्थस्य माहात्म्यं प्रणम्य ऋषिसत्तमम्
एतत्ते कथितं भद्रे माहात्म्यं मथुराभवम्
पठति श्रद्धया युक्तो ब्राह्मणानां च सन्निधौ 180.
एतत्त्वयानाव्रतिने न चाशुश्रूषये तथा
तीर्थानां परमं तीर्थं धर्माणां धर्ममुत्तमम्
कथनीयं महाभागे पुण्यान्भागवतान्सदा एतच्छ्रुत्वा प्रभोर्वाक्यं धरणी विस्मयान्विता
पप्रच्छ मुदिता देवी प्रतिमास्थापनं प्रति
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरावर्णनं नामाशीत्यधिकशततमोऽध्यायः
अथ मधुकाष्ठाप्रतिमायामर्चास्थापनम् एवं श्रुत्वा परं स्थानं सा मही संशितव्रता
संश्रुत्य विस्मयाविष्टा प्रत्युवाच वसुन्धरा अहो क्षेत्रप्रभावो वै यस्त्वया समुदाहृतः
यं श्रुत्वा देवतत्त्वेन जातास्मि विगतज्वरा
मम प्रीत्यर्थमखिलं तद्विष्णो वक्तुमर्हसि
ताम्रे कांस्ये च रौप्ये च तिष्ठसि स्थापितः कथम्
ब्रह्मचारी समासाद्य कथं तिष्ठसि माधव
कथं तिष्ठसि वा सव्ये भित्तिसंस्थो जनार्दनः
एवं धरावचः श्रुत्वा प्रत्युवाचादिसूकरः प्रतिमा यस्य कर्त्तव्या तदानीय वसुन्धरे
प्रतिमां कारयेच्चैव लक्षणोक्तां वसुन्धरे
ततः सम्पूजयेद्देवि संसारभवमुक्तये 181.
कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनार्च्चयेत्
कर्पूरं कुंकुमं चैव त्वचं चागुरुमेव च
एतैर्विलेपनं दद्यादर्चितस्तु विचक्षणः
विधानपूर्वकं चैव मंगल्यं चैव पायसम्
एवं सर्वं ततो दद्यात्पूजायां विहितं शुभम्
प्राणायामं ततः कृत्वा इमं मन्त्रमुदीरयेत्
ससम्भ्रमं लोके सुप्रतीतस्तिष्ठ काष्ठे स त्वं भुवि
पुनः प्रदक्षिणीकृत्य शुद्धैर्भागवतैः सह
नोर्द्ध्वं न तिर्यगीक्षेत कामक्रोधविवर्जितः