तच्छ्रुत्वा कुरु तत्सर्वं येनाहं तोषितोऽभवम्
किं तद्वद यथाकार्यं येन सिद्धं भवेदिदम् या सा ते राजमहिषी तामानय वराननाम् ।। 180.
तस्या दासी वरारोहा प्रभावत्यपि विश्रुता
ततश्चान्तःपुराद्देवी सदासी तत्र चागता
समासीनां च विप्रेन्द्रः प्रोवाच विनताननाम्
ये केचित्पितरो लोके लोकानां सर्वतः स्थिताः
एको वृद्धो नरस्तत्र सूक्ष्मप्राणिभिरावृतः
निराशो गन्तुकामश्च पुनः स निरयेऽशुचौ
तेनात्मकर्मजनितं मम कर्म निवेदितम्
तव दास्याश्च या दासी तस्यास्तन्तुः किलोच्यते
इति श्रुत्वानवद्याङ्गी तस्या आनयनेऽत्वरत्
सा चैकान्ते च दिवसे पानमांसरता सदा 180.
सेवकैः सा करे गृह्य आनीता मुनिसन्निधौ
प्रत्ययार्थं तु तस्या वै मुनिः प्राह क्रियां प्रति
तर्पणं चापि नो दत्तं पितॄणां चातिमुक्तिदम्
न जानामि पितॄन्स्वान्वै क्रियां कार्यं च वै विभो
पत्नी च मथुरेशस्य नृपः सपुरसज्जनः
राज्ञा नीतास्तत्र तीर्थे श्राद्धार्थं मुनिना सह
तत्र दृष्टः स वै जन्तुर्न च तन्तुर्विचेतनः
अगस्त्य उवाच करोतु तर्पणं चास्मिन्पूर्वोक्तविधिना त्वियम् ।।180.
ततः श्राद्धं सरौप्यं च सवस्त्रं सविलेपनम्
अत्रैव सर्वे स्थित्वा वै मामीक्षथ सुखान्वितम्
तस्य तद्वचनं श्रुत्वा राजपत्नी यशस्विनी
वेष्टितः शुशुभेऽतीव दीक्षितोऽवभृथे यथा
तीर्थानि सरितः श्रेष्ठाः पर्वताश्च सरांसि च
पितॄणां मुक्तिदं चान्यन्न भूतं न भविष्यति 180.
शुक्लप्रतिपदन्तं च तीर्थं प्राप्य ससत्वराः
कृत्वा प्रेतपुरीं शून्यां स्वर्ग पातालमेव च
कन्यां गते सवितरि यः श्राद्धं सम्प्रदास्यति
सुतृप्ताः स्मो वयं शश्वद्यास्यामः परमां गतिम्