अस्माकं सन्ततेस्तन्तुस्तस्य श्राद्धकृते वयम्
स्थिता एतावदेवं तु कालं यास्यामहेऽम्बुधौ 180.
श्रुत्वैतत्स त्रिकालज्ञो मोहाविष्टोऽब्रवीदिदम्
विधिरत्र कथं तस्या येन यूयं सपुत्रिणः
पूर्वकर्मविपाकेन यां यां गतिमधोमुखीम्
श्राद्धं पिण्डोदकं दानं नित्यं नैमित्तिकं तथा
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम्
विशेषात्तीर्थमध्ये तु तिलमिश्रं जलाञ्जलिम्
दर्भपाणिस्त्रिस्त्रिगोत्रे पितृनाम समुच्चरन्
आदावेकाञ्जलिर्द्वे तु तिस्रो वै तर्पणे स्मृताः
तृप्यध्वमिति चान्ते वै मन्त्रं मन्त्रप्रतिक्रियाः
पित्रे प्रथमतो दद्यान्मात्रे दद्यात्तथाचरन् 180.
एवं मातामहः शर्मा गोत्रे पितामहस्तथा
मधुवातेत्यृचं तद्वत्पूर्ववत्समुदीरयेत्
एवं मातामहानां च पूर्ववत्क्रमशो बुधः
गोत्रोच्चारं प्रकुर्वीत असूर्यान्नाशयामहे
गोत्रायै मात्रे मह्यै तु देव्यै चासनकर्मणि
अर्घ्यपात्रसंकल्पे तु पिण्डदानेऽवनेजने
गोत्रायै मातुर्महायै देव्याश्चाज्ञेयकर्मणि
प्रथमा चाशिषि प्रोक्ता दत्तस्याक्षय्यकारिका
पितुरक्षयकाले तु पितॄणां दत्तमक्षयम्
वार्यपि श्रद्धया दत्तं तदानन्त्याय कल्पते 180.
कृत्वा श्राद्धं तु पितरो हृष्टा मुमुदिरे सदा ।। जोषमास्स्व त्रिकालज्ञ गच्छामो नरकाय वै
पूर्वकर्मविपाकेन चिरं तु वसितुं मुने ये मया चागता दृष्टास्तीर्थेऽस्मिन्पितरोऽथ वै
बहवः स्वस्थमनसो बहवो दुःस्थमानसाः
मौनेन गच्छतां तेषां किमेतद्वद निश्चयम् अत्र यन्निश्चयं श्राद्धे पुत्रस्य विफलं भवेत्
नरस्य करणं किञ्चित्तन्मे निगदतः शृणु
अपात्रे मलिनं द्रव्यं महत्पापाय जायते
तिलमन्त्रकुशैर्हीनमासुरं तद्भवेदिति
तथा दाशरथी रामो हत्वा राक्षसमीश्वरम्