कृष्णरूपाश्चंक्रमन्तो मशकाकारसन्निभाः
तस्मिन्क्षणे न च कृतं व्रतं जप्यं विमोहनात् 180.
चतुर्थांशावशेषश्च दिवसः पर्यवर्त्तत
अन्ये पूर्वोत्तराद्देशाद्दक्षिणात्पश्चिमात्तथा
हृष्टास्तुष्टा सुपुष्टांगा गच्छन्तो दिवि सङ्घशः
वस्त्रालङ्कारपुष्टांगा हृष्टा गच्छन्ति संघशः
अन्ये यथागतं यान्ति आयान्ति पुनरेव हि
समागच्छन्ति गच्छन्तीरयन्तश्चाशिषो मुदा
निर्गतोदरसूक्ष्माश्च गच्छन्ति सुविमानिताः
महोत्सवमिवालक्ष्य विस्मितो मुनिरुत्थितः
निर्जनं ध्रुवतीर्थं तु वृतवेलमिवाभवत्
वेपथुः कोटराक्षश्च पृष्ठलग्नलघूदरः 180.
न वाक्च श्रूयते तस्य क्षुद्रपक्षिरवो यथा
न गच्छसि यथास्थानमागतस्तु निरुद्यमः
ममाद्य नैत्यकं कर्म तीर्थेऽस्मिन्नश्यतेऽनिशम्
त्वां दृष्ट्वेदृक्स्वरूपं च क्रिया मे सा गता त्वयि
जन्तुरुवाच ध्रुवतीर्थे च यः श्राद्धं पुनः कुर्यात्तिलोदकम्
तिलतृप्ता दिवं यान्ति पितरस्तेन पुत्रिणः
योनिसंकरदोषेण नरकं समुपाश्रितः
अगतिर्गमने मे स्यात्ते त्रितापैः समागतः
बलयुक्ता ययुः स्वर्गं निर्बलस्य कुतो गतिः
ते स्वधापूजितैः पुत्रैर्गच्छन्ति परमां गतिम् 180.
दृष्टास्त्वया त्रिकालज्ञ दिव्यदृष्ट्या दिवं गताः
प्रतिलोमानुलोमानां शूद्राणां श्राद्धकर्मिणाम्
एवं पृष्टः स विप्रेण कथयामास कारणम्
तवापि सन्ततिस्तात नास्ति दैवाद्यथोचिता
वद सर्वं करिष्यामि यदि सत्यं वचो मम
इमे ये मम देहे तु भवन्ति मशकाः कृशाः
तन्तुमन्त्रमहं तेषां मम तन्तुमयी सकृत्
महिष्याः प्रेषणे नित्यं दासी नाम्ना प्रभावती