विना सांख्येन योगेन मुच्यते नात्र संशयः
सा गतिस्त्यजतः प्राणान्मथुरायां न संशयः न तीर्थं मथुराया हि न देवः केशवात्परः
इति श्रीवराहपुराणे मथुरामाहात्म्ये अपराधप्रायश्चित्तमाहात्म्यं नाम ऊनाशीत्यधिकशततमोऽध्यायः
श्रीवराह उवाच ध्रुवतीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे
अस्यां पुर्यां तु राजासीद्धार्मिकः सत्यविक्रमः
तस्य नार्यः शते द्वे तु कुलशीलवयोयुते
नाम्ना चन्द्रप्रभा चैव वीरसूर्वीरपुत्रका
तस्याः परिग्रहास्त्वेकोद्दिष्टाचारविहीनकाः
स्वदोषैः पतिताः सर्वे नरकं प्रति भामिनि
कदाचिदपि तस्याथो भ्रष्टः प्राणिजनो महान्
कृष्णरूपाश्चंक्रमन्तो मशकाकारसन्निभाः
तस्मिन्क्षणे न च कृतं व्रतं जप्यं विमोहनात् 180.
चतुर्थांशावशेषश्च दिवसः पर्यवर्त्तत
अन्ये पूर्वोत्तराद्देशाद्दक्षिणात्पश्चिमात्तथा
हृष्टास्तुष्टा सुपुष्टांगा गच्छन्तो दिवि सङ्घशः
वस्त्रालङ्कारपुष्टांगा हृष्टा गच्छन्ति संघशः
अन्ये यथागतं यान्ति आयान्ति पुनरेव हि
समागच्छन्ति गच्छन्तीरयन्तश्चाशिषो मुदा
निर्गतोदरसूक्ष्माश्च गच्छन्ति सुविमानिताः
महोत्सवमिवालक्ष्य विस्मितो मुनिरुत्थितः
निर्जनं ध्रुवतीर्थं तु वृतवेलमिवाभवत्
वेपथुः कोटराक्षश्च पृष्ठलग्नलघूदरः 180.
न वाक्च श्रूयते तस्य क्षुद्रपक्षिरवो यथा
न गच्छसि यथास्थानमागतस्तु निरुद्यमः
ममाद्य नैत्यकं कर्म तीर्थेऽस्मिन्नश्यतेऽनिशम्
त्वां दृष्ट्वेदृक्स्वरूपं च क्रिया मे सा गता त्वयि
जन्तुरुवाच ध्रुवतीर्थे च यः श्राद्धं पुनः कुर्यात्तिलोदकम्
तिलतृप्ता दिवं यान्ति पितरस्तेन पुत्रिणः
योनिसंकरदोषेण नरकं समुपाश्रितः
अगतिर्गमने मे स्यात्ते त्रितापैः समागतः