मैथुनं शवसंस्पर्शं पुरीषोत्सर्गमेव च
अभाष्य भाषणं चैव पिण्याकस्य च भक्षणम्
गुरोश्चालीकनिर्बन्धः पतितान्नस्य भक्षणम्
अदानं तुवरान्नस्य जालपादवराकयोः
तथैव देव पूजायां निषिद्धकुसुमार्च्चनम्
पानं सुराया देवस्य अन्धकारे प्रबोधनम्
अपराधास्त्रयस्त्रिंशत्समाख्याता मया धरे 179.
दूरस्थो न नमस्कारं कुर्यात्पूजा तु राक्षसी सवासाः पंचगव्याशी मलसंवस्त्रकं क्रमात् प्राजापत्येन शुद्धिः स्यान्नीलीवस्त्रस्य धारणात्
चान्द्रायणद्वयं कुर्याद्गुरोः क्षयितमुत्तमम्
चान्द्रायणं पराकं च प्राजापत्यं तथैव च
उपवासस्तु पंचाहं पंचगव्येन शुद्ध्यति
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शं च कारयन्
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम्
ब्रह्मकूर्च्चेन शुद्धिः स्याद्गोप्रदानत्रयेण च
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन्
पुनः पुनरुवाचेदं देवदेवो जनार्दनः 179.
मुहुर्त्तमात्रे सा देवी संज्ञां प्राप्येदमब्रवीत्
प्रायश्चित्तानि भूरीणि कृतानि तु नरैः सदा
अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यसि
श्रीवराह उवाच कृतोपवासः स्नानेन गंगायां शुद्धिमाप्नुयात्
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत्
सहस्रजन्मसु कृतानपराधाञ्जहाति सः
श्रवणान्मननाच्चैव दर्शनाद्याति पातकम् मथुरा सूकरं चैव द्वावेतौ तव वल्लभौ
विशिष्टमनयोः किं च सत्यं ब्रूहि सुरेश्वर पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च
कुब्जाम्रकं प्रशंसन्ति सदा मद्भावभाविताः
एकाहं मार्गशीर्ष्यां च द्वादश्यां सितवैष्णवम् 179.
गुह्याद्गुह्यतरं पुण्यं माथुरं मम मण्डलम्
अटित्वा सर्वतीर्थानि कुब्जाम्रादीनि नित्यशः
विश्रमणाच्च विश्रान्तिस्तेन संज्ञा वरा मम
गतिरन्वेषणीयानां मथुरा परमा गतिः