द्विजानां प्रीणनं कृत्वा स्वधान्नपटुभोजनैः
हर्षस्तु सुमहाञ्जातो रामस्याक्लिष्टकर्मणः
महोत्सवं च कर्तुं स शत्रुघ्नस्य महात्मनः
एकादश्यां सोपवासः स्नात्वा विश्रान्तिसंज्ञके
तस्मिन्मुक्त्वा यथाकामं ब्राह्मणान्वै प्रतर्प्य च
सर्वपापविनिर्मुक्तः पितृभिः सह मोदते
इति श्रीवराहपुराणे मथुरामाहात्म्ये शत्रुघ्नलावणे रामतीर्थयात्रायामष्टसप्तत्यधिकशततमोऽध्यायः
धरण्युवाच विनापराधो मनुजः सापराधश्च जायते
कर्मणाचरणेनैव करणेन जुगुप्सितः
श्रीवराह उवाच भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम्
मैथुनं शवसंस्पर्शं पुरीषोत्सर्गमेव च
अभाष्य भाषणं चैव पिण्याकस्य च भक्षणम्
गुरोश्चालीकनिर्बन्धः पतितान्नस्य भक्षणम्
अदानं तुवरान्नस्य जालपादवराकयोः
तथैव देव पूजायां निषिद्धकुसुमार्च्चनम्
पानं सुराया देवस्य अन्धकारे प्रबोधनम्
अपराधास्त्रयस्त्रिंशत्समाख्याता मया धरे 179.
दूरस्थो न नमस्कारं कुर्यात्पूजा तु राक्षसी सवासाः पंचगव्याशी मलसंवस्त्रकं क्रमात् प्राजापत्येन शुद्धिः स्यान्नीलीवस्त्रस्य धारणात्
चान्द्रायणद्वयं कुर्याद्गुरोः क्षयितमुत्तमम्
चान्द्रायणं पराकं च प्राजापत्यं तथैव च
उपवासस्तु पंचाहं पंचगव्येन शुद्ध्यति
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शं च कारयन्
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम्
ब्रह्मकूर्च्चेन शुद्धिः स्याद्गोप्रदानत्रयेण च
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन्
पुनः पुनरुवाचेदं देवदेवो जनार्दनः 179.
मुहुर्त्तमात्रे सा देवी संज्ञां प्राप्येदमब्रवीत्
प्रायश्चित्तानि भूरीणि कृतानि तु नरैः सदा
अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यसि
श्रीवराह उवाच कृतोपवासः स्नानेन गंगायां शुद्धिमाप्नुयात्