यस्तोषितो नारदेन तद्वदस्व ममाग्रतः
यः स्तुतोऽहं त्वया वीर तेन तुष्टोऽस्मि ते सदा
व्यक्तांगावयवः साक्षाद्द्वितीयोऽभूद्रविर्यथा
अध्यापयत्सांबयुतो रविर्मध्यन्दिनोऽभवत्
स्नात्वा मध्यन्दिनं दृष्ट्वा सर्वपापैः प्रमुच्यते 177.
सायाह्ने कृष्णगंगाया दक्षिणे संस्थितस्तदा
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति एवं सांबस्य तुष्टेन मध्याह्ने तु नभस्तलात्
द्विधाकृतात्मयोगेन सांबकुष्ठमपोहितम्
सांबस्तु सह सूर्येण रथस्थेन दिवानिशम्
भविष्यमिति विख्यातं ख्यातं कृत्वा पुनर्नवम्
उदयाचलमाश्रित्य यमुनायाश्च दक्षिणे
मूलस्थानं ततः पश्चादस्तमानाचले रविम्
मथुरायां तथा चैकं स्थाप्य सांबो वसुन्धरे
एवं सांबपुरं नाम मथुरायां कुलेश्वरम्
माघमासस्य सप्तम्यां दिव्यं सांबपुरं नराः 177.
गच्छन्ति तत्पदं शान्तं सूर्यमण्डलभेदकम्
पापप्रशमनाख्यानं महापातक नाशनम्
इति श्रीवराहपुराणे साम्बवचनत्रयसूर्यप्रतिष्ठानं नाम सप्तसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच द्विजानुग्रहकामार्थमन्नमुग्रस्वरूपिणम्
द्वादश्यां मार्गशीर्षस्य उपोष्य नियतः शुचिः
द्विजानां प्रीणनं कृत्वा स्वधान्नपटुभोजनैः
हर्षस्तु सुमहाञ्जातो रामस्याक्लिष्टकर्मणः
महोत्सवं च कर्तुं स शत्रुघ्नस्य महात्मनः
एकादश्यां सोपवासः स्नात्वा विश्रान्तिसंज्ञके
तस्मिन्मुक्त्वा यथाकामं ब्राह्मणान्वै प्रतर्प्य च
सर्वपापविनिर्मुक्तः पितृभिः सह मोदते
इति श्रीवराहपुराणे मथुरामाहात्म्ये शत्रुघ्नलावणे रामतीर्थयात्रायामष्टसप्तत्यधिकशततमोऽध्यायः
धरण्युवाच विनापराधो मनुजः सापराधश्च जायते
कर्मणाचरणेनैव करणेन जुगुप्सितः
श्रीवराह उवाच भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम्