उत्तिष्ठतः प्रियाः सर्वा गच्छत स्वनिवेशनम्
सांबस्तत्रैव संतस्थौ वेपमानः कृताञ्जलिः
कृष्णस्तु कथयामास नारदाय सविस्तरम्
क्षणो नास्ति रहो नास्ति नास्ति कृत्ये विभावना
एकवासास्तथा गौरी श्यामा वा वरवर्णिनी 177.
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति मुनिसत्तम
अतीव मानी तेजस्वी धार्मिकोऽतिगुणान्वितः
नारदस्त्वेवमेवं च प्रतिपूज्य हरेर्वचः
यथा एकेन चक्रेण रथस्य न गतिर्भवेत्
पुंसः सुदृष्टिपातेन कृतकृत्या भवन्ति ताः
सांबं दृष्ट्वैव ताः सर्वा अनङ्गेन प्रपीडिताः
तस्मात्सांबस्तु दुष्टात्मा तव स्त्रीणां विनाशकृत्
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः
त्वमिहार्हस्यमेयात्मन्मया नु कथितं हितम्
कृष्णः शशाप सांबं तु विरूपत्वं भविष्यति 177.
शरीरात्तु गलद्रक्तं पूतिगन्धयुतं सदा
ततस्तु नारदेनैव साम्बशापविनाशकः
सांब सांब महाबाहो शृणु जांबवतीसुत
नमस्कुरु यथान्यायं वेदोपनिषदादिभिः
सांब उवाच तस्य देवः कथं तुष्टो भविष्यति स वै मुने
नारद उवाच ब्रह्मलोके पठिष्यामि ब्रह्मणोऽग्रे त्वहं सदा
सुमन्तुर्मर्त्त्यलोके च मनोः प्रकथयिष्यति कथं पूर्वाचले गत्वा मांसपिण्डोपमः प्रभो
त्वत्प्रसादान्महद्दुःखं प्राप्तस्त्वहमकल्मषः यथोदयाचले देवमाराध्य लभते फलम्
मथुरायां तथा गत्वा षट्सूर्ये लभते फलम्
मथुरायां च मध्याह्ने मध्यन्दिन रवौ तथा 177.
मथुरायां तथा पुण्यमुदयास्तं रवेर्जपन्
कृष्णगङ्गोद्भवे स्नात्वा सूर्यमाराध्य यत्नतः
श्रीवराह उवाच मथुरां मुक्तिफलदां रवेराराधनोत्सुकः
नारदोक्तेन विधिना सांबो जांबवतीसुतः
कृत्वा योगेन चात्मानं सांबस्याग्रे रविस्तदा