नष्टा पृथ्वी न लभ्येत तस्माद्देवात्तु कोऽधिकः
वराहः संस्थितः साक्षात्पुराणं येन सूचितम्
तस्य सन्दर्शनादेव सर्वपापविवर्जितः 176.
नवम्यां ज्येष्ठ शुक्लस्य स्नात्वा गङ्गोदके नरः
दत्त्वा दानं यथाशक्ति सर्वपापैः प्रमुच्यते
द्वादशादित्यसङ्काशो विमाने च समास्थितः
वराह उवाच पांचालसंज्ञकस्तत्र सुमन्तुं पर्यपृच्छत
अस्मद्गुरुः पिता त्वं च ब्रूहि किं करवाणि वै
त्रिरात्रं कृच्छ्रपाराक चान्द्रायणमथापि वा
आकाशभारती यत्तु तत्सत्यं नानृतं क्वचित्
दिनेदिने च स्नानात्प्राक् प्रतिगच्छति नित्यशः
तिष्ठोपरमितः पापाद्यावत्कालं च जीवसि
सगतिश्च विपापा च भविष्यति न संशयः एवं प्रभावस्तीर्थस्य मथुरायां वसुन्धरे ।।176.
कृष्णगंगोद्भवस्यापि तथा कालिञ्जरस्य च
यः शृणोति वरारोहे श्रद्धया परया युतः
सप्तजन्मकृतं पापं तस्य सर्वं व्यपोहति अमृतत्वं च लभते स्वर्गलोकं च गच्छति
इति श्रीवराहपुराणे कृष्णगंगोद्भवमाहात्म्यं नाम षट्सप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच द्वारकां वसमानस्य साम्बशापादिकं शृणु
सुखासीनस्य कृष्णस्य पुत्रदारसुतैः सह पाद्यमर्घ्यं चासनं च मधुपर्कं सभाजनम्
एकान्ते प्राप्य कृष्णं च विज्ञप्तिमकरोत्प्रभुः स्पृहणीयः सदा कान्तः स्त्रीजनस्य सुरेश्वरः
एतास्तु वरनार्यो वै क्रीडार्थं हि सुरेश्वरः। देवयोन्यो ददुस्तुभ्यं सहस्राणि च षोडश
साम्बं दृष्ट्वा च सर्वासां क्षुभ्यते च मनः प्रभो
त्वत्प्रियार्थं समायातः कथितुं ते सुरोत्तम
क्रियातः स्वर्गवासोस्ति नरकस्तद्विपर्ययात्
यावत्स शब्दो भवति तावत्पुरुष उच्यते 177.
नरके पुरुषः प्रोक्तो विपरीतो मनीषिभिः
आसनेषूपविष्टानां तासां क्षोभं च तत्त्वतः
तावत्सभ्यासनान्येव स्वास्तीर्य च विभागशः
पश्चात्साम्बः समायातस्तस्याग्रे करसंपुटम्
दृष्ट्वा रूपमतीवास्य साम्बस्यैव वरस्त्रियः