त्वया निर्मलदृष्ट्या च वीक्षितोऽहं पुरा मुने
कृष्णगंगाप्रभावेण पुनर्निर्मलतां गतम्
तत्सत्यं मम सञ्जातमगम्यागमपातकम् 176.
अनुज्ञां देहि भो स्वामिंस्तव पादौ नमाम्यहम्
प्रवेष्टुकामं तत्राग्नौ खे प्रोवाचाशरीरिणी
कस्माद्वा कस्य सन्त्रासान्मरणे कृतनिश्चयौ
चक्राङ्कितपदा तेन स्थानं ब्रह्मसमं शुभम्
तीर्थे च यत्कृतं पापं वज्रलेपो भविष्यति
सकृदेव नरः स्नात्वा मुच्यते ब्रह्महत्यया
तत्पंचतीर्थस्नानेन समं नास्त्यत्र संशयः
त्रयोदश्यां नैमिषे च प्रयागे च चतुर्दशीम्
कालेष्वेषु नरः स्नात्वा सर्वपापं व्यपोहति
असिकुण्डे सरस्वत्यां तथा कालिञ्जरस्य च 176.
कृष्णगंगा दशगुणं लभते च दिनेदिने
सुकृतं दुष्कृतं चापि मथुरायां प्रणश्यति
तीर्थानां गुणमाहात्म्यं महापातकनाशनम्
अनन्तश्चाप्रमेयश्च यस्य चान्तो न विद्यते
विलीनो ज्ञायते नैव तस्य देवस्य का कथा
निःश्वासे च विलीनोऽसौ वायुर्नष्टो न दृश्यते
दृश्यन्ते स्वेदसङ्काशा नाममात्रा यथा पुरा
नष्टा पृथ्वी न लभ्येत तस्माद्देवात्तु कोऽधिकः
वराहः संस्थितः साक्षात्पुराणं येन सूचितम्
तस्य सन्दर्शनादेव सर्वपापविवर्जितः 176.
नवम्यां ज्येष्ठ शुक्लस्य स्नात्वा गङ्गोदके नरः
दत्त्वा दानं यथाशक्ति सर्वपापैः प्रमुच्यते
द्वादशादित्यसङ्काशो विमाने च समास्थितः
वराह उवाच पांचालसंज्ञकस्तत्र सुमन्तुं पर्यपृच्छत
अस्मद्गुरुः पिता त्वं च ब्रूहि किं करवाणि वै
त्रिरात्रं कृच्छ्रपाराक चान्द्रायणमथापि वा
आकाशभारती यत्तु तत्सत्यं नानृतं क्वचित्