तैर्मुक्ता सा सुरांस्तूर्णं जगाम खलु वेपती । नमश्चक्रे च देवेन्द्रं सरमा सुरसत्तमम् ।। १६.
तस्याश्च मरुतो देवा देवेन्द्रेण निरूपिताः । गूढं गच्छत रक्षार्थं देवशुन्या महाबलाः ।। १६.
इत्युक्तास्तेन सूक्ष्मेण वपुषा जग्मुरञ्जसा । तेऽप्यागम्य सुरेन्द्राय नमश्रक्रुर्धराधरे ।। १६.
तां देवराजः पप्रच्छ क्व गावः सरमेऽभवन् । एवमुक्ता तु सरमा न जानामीति चाब्रवीत् ।। १६.
तत इन्द्रो रुषा युक्तो यज्ञार्थमुपकल्पिताः । गावः क्व चेति मरुतः प्रोवाचेदं शुनी कथम् ।। १६.
एवमुक्तास्तु मरुतो देवेन्द्रेण धराधरे । कथयामासुरव्यग्राः कर्म्म तत् सरमाकृतम् ।। १६.
तत इन्द्रः समुत्थाय पदा संताडयच्छुनीम् । क्रोधेन महताविष्टो देवेन्द्रः पाकशासनः ।। १६.
क्षीरं पीतं त्वया मूढे गावस्ताश्चासुरैर्हृताः । एवमुक्त्वा पदा तेन ताडिता सरमा धरे ।। १६.
तस्येन्द्रपादघातेन क्षीरं वक्त्रात् प्रसुस्त्रुवे । स्त्रवता तेन पयसा सा शुनी यत्र गा भवन् । जगाम तत्र देवेन्द्रः सहसैन्यस्तदा धरे ।। १६.
गत्वा चापश्यद् देवेन्द्रस्ता गा दैत्यैरुपाहृताः । पालनां चक्रुर्ये दैत्या बलिनो भृशम् । ते सैन्यैर्निहताः सद्यस्तत्यजुर्गाः स्वमूर्त्तिभिः ।। १६.
सामन्तैश्च सुरेन्द्रोऽथ वृतः परमहर्षितैः । ताश्च लब्ध्वा महेन्द्रस्तु मुदा परमया युतः ।। १६.
चकार यज्ञान् विविधान् सहस्त्रानपि स प्रभुः । क्रियमाणैस्ततो यज्ञैर्ववृधेन्द्रस्य तद् बलम् ।। १६.
वर्द्धितेन बलेनेन्द्रो देवसैन्यमुवाच ह । सन्नह्यन्तां सुराः शीघ्रं दैत्यानां वधकर्मणि ।। १६.
एवमुक्तास्ततो देवाः सन्नद्धास्तत्क्षणेऽभवन् । असुराणामभावाय जग्मुर्देवाः सवासवाः ।। १६.
गत्वा तु युयुधुस्तूर्णं विजिग्युस्त्वासुरीं चमूम् । जिताश्च देवैरसुरा हतशेषा धराधरे । ममज्जुः सागरजले भयत्रस्ता विचेतसः ।। १६.
देवराजोऽपि त्रिदिवं लोकपालैः समं धरे । आरुह्य बुभुजे प्राग्वत् स देवो देवराट् प्रभुः ।। १६.
य एनं श्रृणुयान्नित्यं सरमाख्यानमुत्तमम् । स गोमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।। १६.
भ्रष्टराज्यश्च यो राजा श्रृणोतीदं समाहितः । स देवेन्द्र इव स्वर्गं राज्यं स्वं लभते नरः ।। १६.
धरण्युवाच । ये ते मणौ तदा देव उत्पन्ना नरपुंगवाः । तेषां वरो भगवता दत्तस्त्रेतायुगे किल ।। १७.
राजानो भवितारो वै कथं तेषां समुद्भवः । किं च चक्रुर्हि ते कर्म पृथङ् नामानि शंस मे ।। १७.
श्रीवराह उवाच । सुप्रभो मणिजो यस्तु राजा नाम्ना महामनाः । तस्योत्पत्तिं वरारोहे श्रृणु त्वं भूतधारिणि ।। १७.
आसीद् राजा महाबाहुरादौ कृतयुगे पुरा । श्रुतकीर्तिरिति ख्यातस्त्रैलोक्ये बलवत्तरः ।। १७.
तस्य पुत्रत्वमापेदे सुप्रभो मणिजो धरे । प्रजापालेति वै नाम्ना श्रुतकीर्तिर्महाबलः ।। १७.
सैकस्मिंश्चिद् दिने प्रायाद् विपिनं श्वापदाकुम् । तत्रापश्यदृषेर्धन्यं महदाश्रममण्डलम् ।। १७.
तस्मिन् महातपा नाम ऋषिः परधार्मिकः । तपस्तेपे निराहारो जपन् ब्रह्म सनातनम् ।। १७.
तत्रासौ पार्थिवः श्रीमान् प्रवेशाय मतिं तदा । चकार चाविशद् राजा प्रजापालो महातपाः ।। १७.
तस्मिन् वराश्रमपदे वनवृक्षजात्या धराप्रसूतोर्जितमार्गजुष्टाः । लतागृहा इन्दुरविप्रकाशिनो नायासितज्ञाः कुलभृङ्गराजाः ।। १७.
सुरक्तपद्मोदरकोमलाग्र- नखाङ्गुलीभिः प्रसृतैः सुराणाम् । वराङ्गनाभिः पदपङ्क्तिमुच्चै- विंहाय भूमिं त्वपि वृत्रशत्रोः ।। १७.
क्वचित् समीपे तमतीव हृष्टै- र्नानाद्विजैः षट्चृरणैश्च मत्तैः । वासद्भिरुच्चैर्विविधप्रमाणाः शाखाः सुपुष्पाः समयोगयुक्ताः ।। १७.
कदम्बनीपार्ज्जुनशीलशाल- लतागृहस्थैर्मधुरस्वरेण । जुष्टं विहङ्गैः सुजनप्रयोगा निराकुला कार्यधृतिर्यथास्थैः ।। १७.