रुरोद सुस्वरं दीना स्मृत्वा पूर्वं कुलं वरम्
तस्या विलपितं श्रुत्वा स्त्रीजनः स तदागतः
तैस्तैरुपायैर्विविधैर्जीवयित्वा च तं नरम् 176.
ततस्तेन सवृत्तान्तं कथितं च कुलं महत्
ततः स विमना जातो अगम्यागमनेन च
ब्रह्महा च सुरापश्च ब्राह्मणो यदि जायते
मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम्
ब्रह्मघ्नश्च सुरापश्च स्त्रीघ्नश्च गुरुतल्पगः
इति श्रुत्वा तु पांचाली ज्येष्ठभ्रातरमेव तम्
रत्नं वस्त्रं धनं धान्यं यत्किंचित्तत्र संस्थितम्
कालिञ्जरस्य भूषार्थमारामार्थं विशेषतः
आत्मनश्च विशुद्ध्यर्थं प्रजज्वाल हुताशनम्
पंचालोऽपि विधानेन नमस्कृत्य मुनिं गुरुम् 176.
मरणायोपयोग्यानि कृत्वा कर्माणि तत्र च
क्रीत्वा ग्रामांश्च तत्रैव ब्राह्मणेभ्यो ददौ तदा
तेभ्योऽपि प्रददौ द्रव्यं सत्रार्थं च विभागशः
स्नात्वा तीर्थे च कृष्णस्य देवं दृष्ट्वा प्रणम्य च
देवालयं च तत्रैव कृत्वा सन्दिश्य सार्थकान्
देव ज्ञानं च ते दिव्यमद्भुतं लोमहर्षणम्
आगतोऽहं यदारभ्य मथुरायां ततो गुरो
त्वया निर्मलदृष्ट्या च वीक्षितोऽहं पुरा मुने
कृष्णगंगाप्रभावेण पुनर्निर्मलतां गतम्
तत्सत्यं मम सञ्जातमगम्यागमपातकम् 176.
अनुज्ञां देहि भो स्वामिंस्तव पादौ नमाम्यहम्
प्रवेष्टुकामं तत्राग्नौ खे प्रोवाचाशरीरिणी
कस्माद्वा कस्य सन्त्रासान्मरणे कृतनिश्चयौ
चक्राङ्कितपदा तेन स्थानं ब्रह्मसमं शुभम्
तीर्थे च यत्कृतं पापं वज्रलेपो भविष्यति
सकृदेव नरः स्नात्वा मुच्यते ब्रह्महत्यया
तत्पंचतीर्थस्नानेन समं नास्त्यत्र संशयः