किंचित्कालं समास्थाय तेनोक्तं हि प्रियां प्रति
निर्बन्धं तस्य तज्ज्ञात्वा दुःखेनोवाच तं प्रति
पंचालनगरी रम्या गङ्गायाश्चोत्तरे तटे
दुर्भिक्षपीडिते राष्ट्रे गतौ तौ दक्षिणापथम् 176.
तस्मिन् स्थाने पितुर्मह्यं पंच पुत्रा मया सह
योऽसौ कनिष्ठको भ्राता मम ज्येष्ठश्च पंचमः
तस्मिन्गतेऽथ पितरौ कालधर्ममुपेयतुः
अत्र स्नानपरा नित्यं देवब्राह्मणवन्दनम्
आश्रिता कुलटाधर्मं कुलनाशो मया कृतः
नीता नरकमत्युग्रं मया पापिष्ठया भृशम्
रुरोद सुस्वरं दीना स्मृत्वा पूर्वं कुलं वरम्
तस्या विलपितं श्रुत्वा स्त्रीजनः स तदागतः
तैस्तैरुपायैर्विविधैर्जीवयित्वा च तं नरम् 176.
ततस्तेन सवृत्तान्तं कथितं च कुलं महत्
ततः स विमना जातो अगम्यागमनेन च
ब्रह्महा च सुरापश्च ब्राह्मणो यदि जायते
मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम्
ब्रह्मघ्नश्च सुरापश्च स्त्रीघ्नश्च गुरुतल्पगः
इति श्रुत्वा तु पांचाली ज्येष्ठभ्रातरमेव तम्
रत्नं वस्त्रं धनं धान्यं यत्किंचित्तत्र संस्थितम्
कालिञ्जरस्य भूषार्थमारामार्थं विशेषतः
आत्मनश्च विशुद्ध्यर्थं प्रजज्वाल हुताशनम्
पंचालोऽपि विधानेन नमस्कृत्य मुनिं गुरुम् 176.
मरणायोपयोग्यानि कृत्वा कर्माणि तत्र च
क्रीत्वा ग्रामांश्च तत्रैव ब्राह्मणेभ्यो ददौ तदा
तेभ्योऽपि प्रददौ द्रव्यं सत्रार्थं च विभागशः
स्नात्वा तीर्थे च कृष्णस्य देवं दृष्ट्वा प्रणम्य च
देवालयं च तत्रैव कृत्वा सन्दिश्य सार्थकान्
देव ज्ञानं च ते दिव्यमद्भुतं लोमहर्षणम्
आगतोऽहं यदारभ्य मथुरायां ततो गुरो