कान्यकुब्जाधिपो राजा क्षत्रधर्मे व्यवस्थितः
प्रवर्त्तते सुवित्ताढ्य प्रेक्षणीयं मनोरमम्
तस्य देवस्य या वेश्यास्ताभिः सा प्रतिलोभिता
गीतनृत्यादिषु रता तासां धर्ममुपागता
एवं वसति सा बाला देवस्यास्य परिग्रहा
इति श्रीवराहपुराणे मथुरामाहात्म्ये कृष्णगंगाकालिञ्जरप्रभावे पंचसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच वाणिज्यभाण्डमादाय समूहस्य प्रसंगतः
सार्थेन निष्ठितः सोऽथ धनवान्रूपवांस्ततः
आक्रम्य तत्र सम्प्राप्ता यत्र सा मथुरा पुरी
तस्मिन्स्थाने स पांचालः प्रातस्तु पुरुषैः सह ऐश्वर्यमदभावेन यानेन महता तदा
देवतादर्शनं कृत्वा दत्त्वा दानान्यनेकशः
कौतुकार्थं ततो गत्वा देवं गर्त्तेश्वरं तदा
धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम्
हारा रत्नमयास्तद्वद्ददौ लोभविमोहितः
स्नात्वा तीर्थे समीपे च कृष्णगङ्गोद्भवे सदा 176.
एवं तु कुर्वतस्तस्य मासषट्कं ततो गतम्
स्वाश्रमस्थेन दृष्टः स कृमियुक्तः समागतः
यावत्स्नानं स कुरुते पतते राशिमात्रकः
एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम्
इति चिन्तासमायुक्तस्तमपृच्छद्विशंकितः
किं करोषि दिवारात्रौ ब्रूहि त्वं पृच्छतो मम पांचालो ब्राह्मणसुतो वाणिज्यं च समाश्रितः
दक्षिणापथदेशाच्च मथुरायां समागतः
स्नात्वा महेश्वरं दृष्ट्वा त्रिगर्तेश्वरसंज्ञितम्
सुमन्तुरुवाच अस्नाते कृमिसम्पूर्णं स्नाते निर्मलवर्चसम्
अस्ति किंचिन्महत्पापं तव प्रच्छन्नसम्भवम् 176.
कालिञ्जरस्य संस्पर्शाच्छुद्धं देहं च दृश्यते
निरूप्य कथयास्माकं यत्ते प्रच्छन्नकिल्बिषम्
तीर्थमाहात्म्याभवं च दृष्ट्वा पृच्छामि ते हितम्
किंचिन्नोवाच पृष्टोऽपि एवमेव गतः पुनः
का त्वं कस्यासि सुभगे कश्च देशः प्रियंवदे