ब्राह्मणाय च दत्ता सा धनधान्यसमन्विता
कन्याऽस्थीनि तु संगृह्य मथुरामाजगाम ह
नित्यं स्वर्गे वसति स यस्यास्थि ह्यर्द्धचन्द्रके
तेन सार्थेन सा कन्या मथुरायां जगाम च
सुरूपा सुकुमाराङ्गी नीलकुंचितमूर्द्धजा
सुश्लिष्टाङ्गुलिपादा तु नखास्ताम्रोज्ज्वलाः शुभाः
क्षामोदरी समकुक्षिः पीनोन्नतपयोधरा 175.
सुनखी स्वक्षिणी सुभ्रूः सुप्रमाणा सुभाषिणी
यं यं पश्यति चार्वङ्गी यस्तां चैव प्रपश्यति
एवंविधा तत्र तत्र तीर्थस्नानपरायणा
कान्यकुब्जाधिपो राजा क्षत्रधर्मे व्यवस्थितः
प्रवर्त्तते सुवित्ताढ्य प्रेक्षणीयं मनोरमम्
तस्य देवस्य या वेश्यास्ताभिः सा प्रतिलोभिता
गीतनृत्यादिषु रता तासां धर्ममुपागता
एवं वसति सा बाला देवस्यास्य परिग्रहा
इति श्रीवराहपुराणे मथुरामाहात्म्ये कृष्णगंगाकालिञ्जरप्रभावे पंचसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच वाणिज्यभाण्डमादाय समूहस्य प्रसंगतः
सार्थेन निष्ठितः सोऽथ धनवान्रूपवांस्ततः
आक्रम्य तत्र सम्प्राप्ता यत्र सा मथुरा पुरी
तस्मिन्स्थाने स पांचालः प्रातस्तु पुरुषैः सह ऐश्वर्यमदभावेन यानेन महता तदा
देवतादर्शनं कृत्वा दत्त्वा दानान्यनेकशः
कौतुकार्थं ततो गत्वा देवं गर्त्तेश्वरं तदा
धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम्
हारा रत्नमयास्तद्वद्ददौ लोभविमोहितः
स्नात्वा तीर्थे समीपे च कृष्णगङ्गोद्भवे सदा 176.
एवं तु कुर्वतस्तस्य मासषट्कं ततो गतम्
स्वाश्रमस्थेन दृष्टः स कृमियुक्तः समागतः
यावत्स्नानं स कुरुते पतते राशिमात्रकः
एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम्
इति चिन्तासमायुक्तस्तमपृच्छद्विशंकितः