अस्य विप्रस्य सम्भाषात्पुण्यसत्कीर्त्तितेन च
तस्मात्सर्वप्रयत्नेन सता सम्भाषणं वरम्
तीर्थाभिषेकिपुरुषाद्यथा तेषां दुरात्मनाम्
प्राप्तं तीर्थप्रभावस्य श्रवणान्मुक्तिदं फलम्
यः पठेत्परया भक्त्या शृणुयाद्भक्तितत्परः
पिशाचसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम्
इति श्रीवराहपुराणे मधु० मा० सर्वतीर्थे यमुनासंगमप्रभावोनाम चतुःसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच यमुनास्रोतसि स्नात्वा कृष्णद्वैपायनो मुनिः
ध्यात्वा मनसि गङ्गां तां कालिन्दीं पापहारिणीम्
सोमवैकुण्ठयोर्मध्ये कृष्णङ्गेति कथ्यते
तत्राश्रमपदं दिव्यं मुनिप्रवरसेवितम्
मुनयो वेदतत्त्वज्ञा ज्ञानिनः संशितव्रताः
व्यासोऽपनोदयामास नानावाक्यैः सताङ्गतिः
कालञ्जरे महादेवं तत्र तीर्थपतिं शिवम्
तत्र स्थितो द्वादशाब्दव्रती संगविवर्जितः
गत्वा हिमालयं चासौ बदरीमभितो गतः
त्रिकालदर्शी शुद्धात्मा सिद्धत्वं प्राप्नुयात्प्रभुः 175.
प्रत्यक्षं कृष्णतीर्थे तु पांचाल्यकुलतन्तुना। पांचाल्योऽथ द्विजः कश्चिन्नाम्ना वसुरिति श्रुतः
दुर्भिक्षपीडितोऽत्यन्तं सभार्यो दक्षिणां गतः
निवासमकरोत्तत्र ब्राह्मणीं वृत्तिमाश्रितः
ब्राह्मणाय च दत्ता सा धनधान्यसमन्विता
कन्याऽस्थीनि तु संगृह्य मथुरामाजगाम ह
नित्यं स्वर्गे वसति स यस्यास्थि ह्यर्द्धचन्द्रके
तेन सार्थेन सा कन्या मथुरायां जगाम च
सुरूपा सुकुमाराङ्गी नीलकुंचितमूर्द्धजा
सुश्लिष्टाङ्गुलिपादा तु नखास्ताम्रोज्ज्वलाः शुभाः
क्षामोदरी समकुक्षिः पीनोन्नतपयोधरा 175.
सुनखी स्वक्षिणी सुभ्रूः सुप्रमाणा सुभाषिणी
यं यं पश्यति चार्वङ्गी यस्तां चैव प्रपश्यति
एवंविधा तत्र तत्र तीर्थस्नानपरायणा