मासि भाद्रपदे शुद्धा द्वादशी श्रवणान्विता
सङ्गमे च पुनः स्नात्वा पूजयित्वा तु वामनम्
कपिलानां शतं दत्त्वा हिरण्योपस्कराञ्चितम्
राक्षसत्वं न गच्छेत्तु श्रवणद्वादशीव्रतात्
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणो वेदपारगः
ध्यानयुक्तेन भावेन मुक्तो यात्यपुनर्भवम्
यथालाभोपपन्नेन सौवर्णो वामनः कृतः
आगच्छ वरदानन्त श्रीपते मदनुग्रहात् 174.
(आवाहनम्) यत्त्वं नक्षत्ररूपेण दवादश्यां नभसि स्थितः
( नक्षत्रम्) नमः कमलनाभाय कमलालय केशव
सर्वव्यापिन्जगद्योने नमः सर्वमयाच्युत
धूपोऽयं देवदेवेश शंखचक्रगदाधर
तेजसा सर्वलोकाश्च विवृताः सन्तु तेऽव्ययाः
अदितेर्गर्भमाधाय वैरोचनिशमाय च
(नैवेद्यम्) देवानां सम्मतश्चापि योगिनां परमां गतिः
( अर्घ्यम्) हव्यभुग्घव्यकर्त्ता त्वं होता हव्यं त्वमेव च
(इति स्वाहा होमः) हिरण्यमन्नं त्वं देव जलवस्त्रमयो भवान्
( छत्रादिदानम्) पर्जन्यो वरुणः सूर्यः सलिलं केशवः शिवः 174.
( वामनस्तुतिम्) अन्नं प्रजापतिर्विष्णुरुद्रचन्द्रेन्द्रभास्कराः
( करकदानं) वामनो बुद्धिदाता च द्रवस्थो वामनः स्वयम्
( यजमानः) वामनं प्रतिगृह्णामि वामनो मे प्रयच्छति
( द्विजः प्रतिग्रहीता) कपिलाङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश
( गोदानं) मम पापच्छिदे तुभ्यं देवगर्भ सुपूजित
(विसर्जनम्) एवं विद्वांस्तु द्वादश्यां यो नरः श्रद्धयान्वितः
ब्राह्मण उवाच करोति विधिनानेन तस्य पुण्यं शतोत्तरम्
मयापि श्रद्धया चैतत्कालं तीर्थस्य सेवनम्
येन यूयं न शक्ता मां बाधितुं पापकर्मिणः
तावद्व्रतं तु कर्त्तव्यं यावदेकं क्षयं व्रजेत् 174.
श्रवणाद्वो गतिः साक्षात्साधु लक्ष्यामि चाऽधुना एवं ब्रुवति विप्रे तु आकाशे दुन्दुभिस्वनः
प्रेतानां तु विमानानि आगतानि समन्ततः