प्रेतस्तु जायते केन तद्वद त्वं महामुने शूद्रान्नेन तु भुक्तेन ब्राह्मणो म्रियते यदि
तेनैव चोदरस्थेन स प्रेतो जायते ध्रुवम्
मनुष्यः प्रेततां याति स्पर्शेन सुतरां तथा
पाषण्डाश्रमसंस्थश्च मद्यपः पारदारिकः
देवस्वं ब्राह्मणस्वं च गुरोर्द्रव्यं हरेत्तु यः
मातरं पितरं भ्रातृभगिन्यौ च स्त्रियं सुतम्
अयाज्ययाजनाच्चैव याज्यानां परिवर्जनात्
ब्रह्महा च कृतघ्नश्च गोघ्नो वै पञ्चपातकी
गुरोर्धर्म्मोपदेष्टुश्च नित्यं हितमभीप्सतः 174.
असद्भ्यः प्रतिगृह्णाति नास्तिकेभ्यो विशेषतः
प्रेता ऊचुः विरुद्धकारिणः पापास्तेषां कांचिद्गतिं वद
ब्राह्मण उवाच तेषां गतिर्भवेदेका मथुरायान्तु सङ्गमे
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा
सुवर्णमन्नं वस्त्रं च च्छत्रोपानत्सुसंयुतम्
न ते प्रेता भविष्यन्ति मार्गस्थो यो नमस्यते
तत्र तीर्थे नरः स्नातो हृष्टपुष्टो यथाश्रुतः
तीर्थस्यैव तु माहात्म्यं प्रेतो भूत्वा शृणोति यः
प्रेता ऊचुः येन वै क्रियमाणेन प्रेतत्वात्तु विमुच्यते
ब्राह्मण उवाच पुराणं कथितं राज्ञे मान्धात्रे पृच्छते पुरा ।। 174.
वसिष्ठेन महाभागाः शृणुध्वं कथयाम्यहम्
मासि भाद्रपदे शुद्धा द्वादशी श्रवणान्विता
सङ्गमे च पुनः स्नात्वा पूजयित्वा तु वामनम्
कपिलानां शतं दत्त्वा हिरण्योपस्कराञ्चितम्
राक्षसत्वं न गच्छेत्तु श्रवणद्वादशीव्रतात्
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणो वेदपारगः
ध्यानयुक्तेन भावेन मुक्तो यात्यपुनर्भवम्
यथालाभोपपन्नेन सौवर्णो वामनः कृतः
आगच्छ वरदानन्त श्रीपते मदनुग्रहात् 174.
(आवाहनम्) यत्त्वं नक्षत्ररूपेण दवादश्यां नभसि स्थितः
( नक्षत्रम्) नमः कमलनाभाय कमलालय केशव