समारुह्योद्विग्नमना रोधकस्तेन चोच्यते
अस्माकमपि पापिष्ठो लेखकस्तेन नाम वै
शीघ्रगः पङ्गुतां प्राप्तः परं सूचीमुखस्ततः
बृहद्वृषणशुष्काङ्गः पापादेव प्रजायते
यदि ते श्रवणे श्रद्धा पृच्छ चान्यद्यदिच्छसि ये जीवा भुवि तिष्ठन्ति सर्व आहारजीविनः
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः शृणु चाहारमस्माकं सर्वभूतदयापर
यच्छ्रुत्वा निन्दसे नित्यं भूयो भूयश्च नित्यशः
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै
गुरवो नैव पूज्यन्ते स्त्रीजितानि गृहाणि च 174.
नित्यं च कलहो यत्र प्रेता भुञ्जन्ति तत्र वै निन्दितानां द्विजातीनां जुगुप्सितकुलोद्भवे
जातानां विहितानां च दुष्कृतं कर्म कुर्वताम्
एतत्पापतरं चान्यद्भोजनं दुष्टकर्मिणाम्
प्रेतो यथा न भवति तथा ब्रूहि तपोधन एकरात्रत्रिरात्रेण कृच्छ्रचान्द्रायणादिभिः
व्रतैरभ्युद्यतः पूतो न प्रेतो जायते नरः
यतीनां पूजको नित्यं न प्रेतो जायते नरः
सर्वभूतदयालुश्च न प्रेतो जायते नरः
रतो वै पितृपूजायां न प्रेतो जायते नरः
क्षमायुक्तो दानशीलो न प्रेतो जायते नरः
उपवासपरो नित्यं न स प्रेतोऽभिजायते 174.
देवांश्च वन्दते नित्यं न प्रेतो जायते हि सः त्वत्तस्तच्छ्रुतमस्माभिर्यो न प्रेतोऽभिजायते
प्रेतस्तु जायते केन तद्वद त्वं महामुने शूद्रान्नेन तु भुक्तेन ब्राह्मणो म्रियते यदि
तेनैव चोदरस्थेन स प्रेतो जायते ध्रुवम्
मनुष्यः प्रेततां याति स्पर्शेन सुतरां तथा
पाषण्डाश्रमसंस्थश्च मद्यपः पारदारिकः
देवस्वं ब्राह्मणस्वं च गुरोर्द्रव्यं हरेत्तु यः
मातरं पितरं भ्रातृभगिन्यौ च स्त्रियं सुतम्
अयाज्ययाजनाच्चैव याज्यानां परिवर्जनात्
ब्रह्महा च कृतघ्नश्च गोघ्नो वै पञ्चपातकी
गुरोर्धर्म्मोपदेष्टुश्च नित्यं हितमभीप्सतः 174.
असद्भ्यः प्रतिगृह्णाति नास्तिकेभ्यो विशेषतः