विशिष्टेन मया प्राप्तो राज्ञो लाभः सुपुष्कलः
एवं वसन्सुखं तत्र गोकर्णः सह बन्धुभिः
शुकेश्वरं प्रतिष्ठाप्य दिव्यं सत्रं चकार ह
शुकसत्रमिति ख्यातं मृतो मुक्तिमवाप सः 173.
शुकप्रदाने गोकर्णः फलं स्नानस्य संगमात्
शबराय सभार्याय तेन स्वर्गं गतश्च ह
एतत्ते कथितं सर्वं मथुरायां महत्फलम्
गोकर्णस्य तु सन्तानमक्षयं धर्मतोऽव्ययम्
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये त्रयस्सप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच संगमस्य प्रभावं हि पापिनामपि मुक्तिदम्
अत्रैव श्रूयते पूर्वं ब्राह्मणः संशितव्रतः
स्वाध्याययुक्तो होमे च नित्ययुक्तः सः योगवित्
एवं कर्माणि कुर्वन्स ब्रह्मलोकजिगीषया
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति
प्रयातो विधिवत्साक्षात् सूर्यस्योदयनं प्रति
तथा चोत्तरकोट्यां तु तथा मन्माथुरं च यत्
गत्वा सर्वाणि तीर्थानि स्नात्वा पूतो भवाम्यहम्
कृतपूजानमस्कारः अध्वानं प्रत्यपद्यत
अरण्ये कण्टकवृते निर्जने शब्दवर्जिते 174.
ईषदुत्त्रस्तहृदयस्तिष्ठदुन्मील्य चक्षुषी
पप्रच्छ मधुरालापः के यूयं रौद्रमूर्त्तयः
एकस्थानात्सदा यूयं प्रस्थिताः कुत्र वा सदा क्षुत्पिपासातुरा नित्यं बहुदुःखसमन्विताः
दुर्बुद्ध्या च वृताः सर्वे हीनज्ञाना विचेतसः
नान्तरिक्षं महीं चापि जानीमो दिवसं तथा
अप्रकाममिदं भाति भास्करोदयनं प्रति
शीघ्रगो रोधकश्चैव पंचमो लेखकस्तथा प्रेतानां कर्मजातानां नाम्नां वै सम्भवः कुतः
किं तत्कारणमेतद्धि यूयं सर्वे सनामकाः अहं स्वादु सदाश्नामि दद्मि पर्युषितं द्विजे
एतत्कारणमुद्दिश्य नाम पर्युषितं द्विज
एतत्कारणमुद्दिश्य परः सूचीमुखस्ततः 174.
एतत्कारणमुद्दिश्य शीघ्रगस्तेन सोच्यते