गोकर्णस्तु तदाचक्षे तत्सर्वं नृपतेः सुखी
राज्ञा तस्मै प्रदत्ताश्च ग्रामाश्चैव पुराणि च 172.
आश्चर्यं परमं धर्ममारामस्य महत् फलम्
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये द्विसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच शुकं च मातापितरौ साधुभार्याचतुष्टयम्
संमान्य पूजयामास यथाविभवशक्तितः
स्वयं च कृतवांस्तत्र अविघ्नस्य महामखम्
गीतवादित्रमंगल्यं पुत्रवृद्धौ यथोचितम्
एकैकं च परिष्वज्य प्रणिपत्य यथाक्रमम्
शुकं हृदि समालोक्य प्ररुरोद स वै वणिक्
विशिष्टेन मया प्राप्तो राज्ञो लाभः सुपुष्कलः
एवं वसन्सुखं तत्र गोकर्णः सह बन्धुभिः
शुकेश्वरं प्रतिष्ठाप्य दिव्यं सत्रं चकार ह
शुकसत्रमिति ख्यातं मृतो मुक्तिमवाप सः 173.
शुकप्रदाने गोकर्णः फलं स्नानस्य संगमात्
शबराय सभार्याय तेन स्वर्गं गतश्च ह
एतत्ते कथितं सर्वं मथुरायां महत्फलम्
गोकर्णस्य तु सन्तानमक्षयं धर्मतोऽव्ययम्
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये त्रयस्सप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच संगमस्य प्रभावं हि पापिनामपि मुक्तिदम्
अत्रैव श्रूयते पूर्वं ब्राह्मणः संशितव्रतः
स्वाध्याययुक्तो होमे च नित्ययुक्तः सः योगवित्
एवं कर्माणि कुर्वन्स ब्रह्मलोकजिगीषया
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति
प्रयातो विधिवत्साक्षात् सूर्यस्योदयनं प्रति
तथा चोत्तरकोट्यां तु तथा मन्माथुरं च यत्
गत्वा सर्वाणि तीर्थानि स्नात्वा पूतो भवाम्यहम्
कृतपूजानमस्कारः अध्वानं प्रत्यपद्यत
अरण्ये कण्टकवृते निर्जने शब्दवर्जिते 174.
ईषदुत्त्रस्तहृदयस्तिष्ठदुन्मील्य चक्षुषी