हृद्यवेषाः सुचार्वंग्यः पुष्पवृद्धिरताः तदा
राजलोकैः पीडिताश्च च्छेदनोन्मूलनेन च 172.
पुष्पमालाविहीनाश्च मूलस्कन्धावशेषिताः
यो देवस्तत्र पाषाणो मृत्पिण्डेष्टकयन्त्रितः
पुण्यं सोदकपूर्णोऽयं तस्यारामस्य सेचकम्
ये च वृक्षाः फलोपेतास्ते सौवर्णाश्च सत्तम तस्या नाशाद्यथा नोऽत्र जातेयं च विरूपता
गोकर्ण उवाच करणात्कूपदेवानां तस्य पुण्यफलं वद
ज्येष्ठोवाच इष्टेन लभते स्वर्गं पूर्त्ते मोक्षं च विन्दति
वापीकूपतडागानि देवतायतनानि च
भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश पुष्पजातीः
यथा सुपुत्रः कुलमुद्धरेद्धि यथाऽतिकृच्छ्रान्नियमप्रयत्नात् 172.
गोकर्ण उवाच छायाविश्रामपथिकैः पक्षिणां निलयेन च
पत्रमूलत्वगाद्यैश्च औषधार्थं तु देहिनाम्
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहास्तथा
फलन्ति वत्सरे मध्ये द्विवारं शकुनादयः एवं पुत्रसमारोपा एवं तत्त्वविदो विदुः
श्रीवराह उवाच हा कष्टं कथमित्येव मुमोह च पपात ह
ताभिराश्वासितो धीमान्ससंज्ञो वारिणोक्षितः
गोकर्ण उवाच मथुरायां ममैवतदुद्यानं देवतागृहम्
यदि तत्र गतश्चाहं पितृराज्ञोस्तु सन्निधौ
ज्येष्ठा प्रोवाच नेष्यामि यदि ते रोचतेऽनघ
विमानप्रतिमाकारं यानमारुह्य सत्वरः 172.
गृह्णीष्वोपायनं राज्ञे तस्मै त्वं देह्यनर्घ्यकम्
उत्पपात ततः स्थानाद्यत्र राजा व्यवस्थितः
राजा दर्शनमात्रेण सन्तुष्टः सोब्रवीदिदम्
अर्द्धासने कृतः प्रीत्या रत्नदो धनदो यथा
आश्चर्यं दर्शयिष्यामि कथयिष्यामि चापि भोः
मुहूर्त्तार्द्धाद्यथा याति सैन्यं तच्च तथा कुरु
कृतं तेन तथा सर्वं यथा राज्ञा हि भाषितम्
साधु साध्विति गोकर्णं प्रशशंसुः पुनः पुनः