बहुधा वार्यमाणैस्तु पापबुद्धिसमाश्रितैः
पञ्जरस्थो यथा सिंहः कोऽस्मांस्त्राता भवेदिति 172.
रुरोदोच्चैः स्वरं दीना हा कष्टमिति जल्पती
श्रूयते बहुधाकारो गोकर्णोऽप्यतिदुःखितः
प्राञ्जलिर्दीनया वाचा सान्त्वयामास ताः शनैः
भविता यदि तत्राहं राजानं तं निवारयम्
इत्युक्तमात्रे वचने ताः सर्वा लब्धचेतसः कस्त्वं कथय कस्माच्च स्थानाद्यत्त्वमिहागतः
गोकर्ण उवाच पूर्वं दृष्टा भवत्यो वै चार्वंग्यश्चारुलोचनाः
इदानीं मलिना जाता मम शोकविवर्द्धनाः
ज्येष्ठा सोवाच तस्याग्रे पुष्पजात्या स्वलंकृताः
हृद्यवेषाः सुचार्वंग्यः पुष्पवृद्धिरताः तदा
राजलोकैः पीडिताश्च च्छेदनोन्मूलनेन च 172.
पुष्पमालाविहीनाश्च मूलस्कन्धावशेषिताः
यो देवस्तत्र पाषाणो मृत्पिण्डेष्टकयन्त्रितः
पुण्यं सोदकपूर्णोऽयं तस्यारामस्य सेचकम्
ये च वृक्षाः फलोपेतास्ते सौवर्णाश्च सत्तम तस्या नाशाद्यथा नोऽत्र जातेयं च विरूपता
गोकर्ण उवाच करणात्कूपदेवानां तस्य पुण्यफलं वद
ज्येष्ठोवाच इष्टेन लभते स्वर्गं पूर्त्ते मोक्षं च विन्दति
वापीकूपतडागानि देवतायतनानि च
भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश पुष्पजातीः
यथा सुपुत्रः कुलमुद्धरेद्धि यथाऽतिकृच्छ्रान्नियमप्रयत्नात् 172.
गोकर्ण उवाच छायाविश्रामपथिकैः पक्षिणां निलयेन च
पत्रमूलत्वगाद्यैश्च औषधार्थं तु देहिनाम्
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहास्तथा
फलन्ति वत्सरे मध्ये द्विवारं शकुनादयः एवं पुत्रसमारोपा एवं तत्त्वविदो विदुः
श्रीवराह उवाच हा कष्टं कथमित्येव मुमोह च पपात ह
ताभिराश्वासितो धीमान्ससंज्ञो वारिणोक्षितः
गोकर्ण उवाच मथुरायां ममैवतदुद्यानं देवतागृहम्
यदि तत्र गतश्चाहं पितृराज्ञोस्तु सन्निधौ