याता ऽस्मि मथुरां मार्गे समुद्रे जलमालिनि
अवश्यं च गमिष्येऽहमनुज्ञा तु प्रदीयताम्
गच्छ त्वं पुत्र मथुरामवस्थां मामकीमिमाम्
इत्युक्तः स तथेत्युक्त्वा पोतारूढः खगोत्तमः
श्रुत्वा तौ विषमावस्थं मृतं हृदि निवेश्य च
अस्माकं जीवनार्थाय त्वया कार्यं विहङ्गम
शुकेन पंजरस्थेन कथालापेन विद्यया
अथ सार्थः समायातो रत्नपूर्णो यथोदधिः
सर्वैस्तैर्विंशतिः संख्या एकैकेन समुद्रगैः 171.
प्रसाद्य सर्वे सम्पूज्य प्रेषितास्ते गृहं ययुः
शुश्रूषमाणास्तं वैश्यं यथा स्वपितरं तथा
इति श्रीवराहपुराणे भगवच्छास्त्रे गोकर्णमाहात्म्ये एकसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच प्रथमेऽह्नि यथा कृत्यमेवमेव त्रयोदश
ता देव्यो नृत्यगीतेषु कुशलाश्चागमेऽभवन्
गोकर्णः सर्वभावेन गृहं विस्मृतवानसौ
विवर्णं वदना दीना भग्नालंकारवाससः
दृश्यन्ते विकृताकाराः सव्रणा रुधिरस्रवाः
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च
एवं ज्ञात्वा स पप्रच्छ तासां रूपविपर्ययम्
देव्य ऊचुः कालात्मकः स भगवान्भुज्यते सुकृतं यतः
स एव नित्यकालं च पृच्छति स्म तदुत्तरम्
निश्चयार्थं पुनः सोऽथ गोकर्णस्ताः प्रणम्य च 172.
यदि गोप्यं ममार्त्तस्य वैरूप्यं कथयिष्यथ
एवमुक्ते तदा तासां मध्ये एकाऽब्रवीदिदम्
शृणु वत्स वदिष्येऽहं विरूपकरणं यथा
आस्ते मधुपुरी रम्या नृणां मुक्तिप्रदायिनी
चातुर्मास्यं तीर्थसेवी स गतो भक्तिपूर्वकम्
आरामवाटिकाः शुभ्राः प्राकारवरवेष्टिताः
फलवन्तो द्रुमास्तस्मिन्सर्वर्त्तुसुमनोहराः
सेवकैर्नाशितः सर्वं आरामः सफलद्रुमः