रोमांचिततनुर्जातः शुको वीक्ष्य महागिरिम्
दृष्टं च विष्ण्वायतनं तेजसा चोपशोभितम्
वत्साऽयं कोऽत्र संचारी कदा किं तु पिता मम
क्षणमेकं तथा चैनं तस्य चिन्तान्वितस्य हि
नमो नारायणायोक्त्वा निषसाद वरासने असंख्याताः समायाता यथा देवी तथैव ताः
गीतं वाद्यं च नृत्यं च यथासौख्यं विहृत्य च
देवतादक्षिणे भागे पक्षिणां च जटायुषाम्
शुको लेख्यसमस्तेषां मध्ये कृत्वा तु संविदम्
ते समाश्वास्य तं प्राहुः कथमस्मिन्भवान्गतः 171.
शुकस्तान्प्रत्युवाचाथ पिता मे पोतसंस्थितः
तस्य त्राणमभीप्सन्वै ह्यागतोऽत्र वरं गिरिम्
पक्षिण ऊचुः पोताभ्याशगतिं यासि पितुस्तव गतिं प्रति
ममैव पादविन्यासे क्रमयिष्ये यथा जलम्
मम चंच्वावगाहेन नङ्क्ष्यन्ति जलजन्तवः
तारयामास वेगेन गत्वा पृष्ठं जटायुषः
हृत्कण्ठं चैव गम्भीरं सुखेन सुकृती यथा
सरोवरं च पद्माढ्यं मणिरत्नविभूषितम्
पुष्पाण्यादाय देवं च पूजयित्वा स केशवम् दृष्ट्वा निलिल्ये चैकान्ते शुकस्यानुमते स्थितः
क्षणेन ता यथापूर्वं देवताश्चागताः पुनः 171.
स्वागतस्य क्षुधार्त्तस्य ब्रह्मिष्ठस्य महात्मनः
गोकर्णस्य प्रयच्छध्वं येन तृप्तिस्त्रिमासिकी
तथा कृत्वा तमूचुस्ता अभयं तेऽस्तु मा शुचः
गतास्ताः पुनरेवं च नित्यमेव दिने दिने
पोतात्तस्मादुत्ततार सुवातेनोपवाहितः
रत्नानि बहु मौल्यानि आहृतानि बहून्यथ
निरीक्ष्यतेऽस्य संवासो न दृष्टश्चुक्रुशुस्ततः
व्रीडायुतो निमग्नोऽयं निश्चितं मकरालये
यथाभागं च रत्नानां भागं दास्यामहे परम्
एवं वसन्स गोकर्णो द्वीपस्थः शोकविह्वलः 171.
शुकेन मन्त्रमूढत्वात्पितुरेवं निवेदितम्