अथ दैववशाद्वायुर्विलोमः समजायत पोतवाहास्ततः सर्वे विसंज्ञा मोहिताः कृशाः
हा कष्टं हि कथं किञ्च कुत्र गच्छामहे वयम् आक्षिपद्वाग्भिरुग्राभिरन्योन्यं शङ्क्य मूर्च्छिताः
जल्पन्ति कोऽत्र पापिष्ठः समारूढो निराकृतः
एवं विलपतां तेषां चत्वारोऽपि समभ्ययुः
निर्भर्त्सनं ततस्तेषामन्योन्यमभिजल्पनम्
अपुत्रस्य गतिर्नास्ति इति सर्वस्य निश्चितम्
यदत्र युक्तं कालेऽस्मिन्विषमे समुपस्थिते
शुक उवाच अहं करिष्ये तत्सर्वं मा विषादे मनः कृथाः
एवमाश्वास्य पितरं समुड्डीय ततो द्रुतम् 171.
नीचगत्या रक्षयन्वै सुतरं दुस्तरं जलम्
रोमांचिततनुर्जातः शुको वीक्ष्य महागिरिम्
दृष्टं च विष्ण्वायतनं तेजसा चोपशोभितम्
वत्साऽयं कोऽत्र संचारी कदा किं तु पिता मम
क्षणमेकं तथा चैनं तस्य चिन्तान्वितस्य हि
नमो नारायणायोक्त्वा निषसाद वरासने असंख्याताः समायाता यथा देवी तथैव ताः
गीतं वाद्यं च नृत्यं च यथासौख्यं विहृत्य च
देवतादक्षिणे भागे पक्षिणां च जटायुषाम्
शुको लेख्यसमस्तेषां मध्ये कृत्वा तु संविदम्
ते समाश्वास्य तं प्राहुः कथमस्मिन्भवान्गतः 171.
शुकस्तान्प्रत्युवाचाथ पिता मे पोतसंस्थितः
तस्य त्राणमभीप्सन्वै ह्यागतोऽत्र वरं गिरिम्
पक्षिण ऊचुः पोताभ्याशगतिं यासि पितुस्तव गतिं प्रति
ममैव पादविन्यासे क्रमयिष्ये यथा जलम्
मम चंच्वावगाहेन नङ्क्ष्यन्ति जलजन्तवः
तारयामास वेगेन गत्वा पृष्ठं जटायुषः
हृत्कण्ठं चैव गम्भीरं सुखेन सुकृती यथा
सरोवरं च पद्माढ्यं मणिरत्नविभूषितम्
पुष्पाण्यादाय देवं च पूजयित्वा स केशवम् दृष्ट्वा निलिल्ये चैकान्ते शुकस्यानुमते स्थितः
क्षणेन ता यथापूर्वं देवताश्चागताः पुनः 171.
स्वागतस्य क्षुधार्त्तस्य ब्रह्मिष्ठस्य महात्मनः