महावराहः सततं पृथिव्यास् तलात्तलं प्राविशद् यो महात्मा । यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः स पातु मां दैत्यहरः पुराणः ।। १५.
नृसिंहरूपी च भवत्यजस्त्रं युगे युगे योगिवरोग्रभीमः । करालवक्त्रः कनकाग्रवर्चा रत्नाशयोऽस्मानसुरान्तकोऽव्यात् ।। १५.
बलेर्मखध्वंसकृते महात्मा स्वां गूढतां योगवपुःस्वरूपः । स दण्डकाष्ठाऽजिनलक्षणः पुनः क्षितिं च पदा क्रान्तवान् यः स पातु ।। १५.
त्रिःसप्तकृत्वो जगतीं जिगाय जित्वा ददौ कश्यपाय प्रचण्डः । स जामदग्न्योऽभिजनस्य गोप्ता हिरण्यगर्भोऽसुरहा प्रपातु ।। १५.
चतुःप्रकारं च वपुर्य आद्यं हैरण्यगर्भप्रतिमानलक्ष्यम् । रामादिरूपैर्बहुरूपभेद- श्चकार सोऽस्मानसुरान्तकोऽव्यात् ।। १५.
चाणूरकंसासुरदर्पभीते- र्भीतामराणामभयाय देवः । युगे युगे वासुदेवो बभूव कल्पे भवत्यद्भुतरूपकारी । युगे युगे कल्किनाम्ना महात्मा वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः ।। १५.
सनातनो ब्रह्ममयः पुराणो न यस्य रूपं सुरसिद्धदैत्याः । पश्यन्ति विज्ञानगतिं विहाय अथोप्यनेकानि समर्च्वयन्ति । मत्स्यादिरूपाणि चराणि सोऽव्यात् ।। १५.
नमो नमस्ते पुरुषोत्तमाय पुनश्च भूयोऽपि नमो नमस्ते । नमः पुरस्तादथ पृष्ठतस्ते नयस्व मां मुक्तिपदं नमस्ते ।। १५.
एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः । प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः ।। १५.
तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः । उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते । लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते ।। १५.
धरण्युवाच । तदा दुर्वाससा शप्तो देवराजः शतक्रतुः । वसिष्यसि त्वं मर्त्त्येषु सुप्रतीकसुतेन तु ।। १६.
उत्सादितो दिवो मूढेत्येवमुक्तस्तु भूधर । इन्द्रो मर्त्त्यमुपागम्य सर्वदेवसमन्वितः ।। १६.
किं चकार च तस्मिंस्तु दुर्जये च निपातिते । परमेष्ठिना भगवता तेन योगविदुत्तमौ ।। १६.
स्वर्गे विद्युत्सुविद्युच्च तौ च किं चक्रतुस्तदा । एतन्मे संशयं देव कथयस्व प्रसादतः ।। १६.
श्रीवराह उवाच । दूर्जयेन जितो धात्रि देवराजः शतक्रतुः । भारते हि तदा वर्षे वाराणस्यां तु पूर्वतः । आश्रित्य संस्थितो देवैः सह यक्षमहोरगैः ।। १६.
विद्युत्सुविद्युच्च तदा योगमास्थाय शोभने । दीर्घतापज्वरं वायुकर्मयोगेन संश्रितौ १६.
तं दुर्जयं मृतं श्रुत्वा समुद्रान्तःस्थितं तदा । आनीय चतुरङ्गं तु देवान् प्रति विजग्मतुः ।। १६.
आगत्य तौ तदा दैत्यौ महत्सैन्येन पर्वतम् । हिमवन्तं समाश्रित्य संस्थितौ तु बभूवतुः ।। १६.
देवा अपि महत्सैन्यं संहत्य कृतदंशिताः । मन्त्रयाञ्चक्रुरव्यग्रा ऐन्द्रं पदमभीप्सवः ।। १६.
अब्रवीत् तत्र देवानां गुरुराङ्गिरसो मुनिः । गोमेधेन यजघ्वं वै प्रथमेन तदन्तरम् ।। १६.
यष्टव्यं क्रतुभिः सर्वैरेकस्थितिरथामराः । उपदेशो मया दत्तः क्रियतां शीघ्रमेष वै ।। १६.
एवमुक्तास्तदा देवा गाः पशूंश्चानुकल्प्य ते । मुमुचुश्चरणार्थाय रक्षार्थं सरमां ददुः ।। १६.
ताश्च गावो देवशुन्या रक्ष्यमाणा धराधरे । तत्र जग्मुस्तदा गावश्चरन्त्यो यत्र तेऽसुराः ।। १६.
ते च गावस्तु ता दृष्ट्वा शुक्रमूचुः पुरोहितम् । पश्वर्थं देवगा ब्रह्मंश्चार्यन्ते रक्षमाणया । देवशून्या सरमया वद किं क्रियतेऽधुना ।। १६.
एवमुक्तस्तदा शुक्रः प्रत्युवाचासुरांस्तदा । एता गा ह्रियतां शीघ्रमसुरा मा विलम्बथ ।। १६.
एवमुक्तास्तदा दैत्या जह्रुस्ता गा यदृच्छया । हृतासु तासु सरमा मार्गमन्वेषणे रता ।। १६.
अपश्यत् सा दितेः पुत्रैर्नीता गावो धराधरे । दैत्यैरपि शुनी दृष्टा दृष्टमार्गा विशेषतः ।। १६.
दृष्ट्वा ते तां च साम्नैव सामपूर्वमिदं वचः । आसां गवां तु दुग्ध्वैव क्षीरं त्वं सरमे शुभे ।। १६.
पिबस्वैवमिति प्रोक्ता तस्यै तद् ददुरञ्जसा । दत्त्वा तु क्षीरपानं तु तस्यै ते दैत्यनायकाः ।। १६.
मा भद्रे देवराजाय गाश्चेमा विनिवेदय । एवमुक्त्वा ततो दैत्या मुमुचुस्तां शुनीं वने ।। १६.