स्वस्थो भव महाभाग मा स्म शोके मनः कृथाः
तस्य तद्वचनं हृद्यं शुकमोक्षप्रदायकम्
तस्यां वसाम्यहं भद्र वाणिज्यार्थमिहागतः ।। पुनरिच्छामहे तत्र भाण्डं गृह्य यथासुखम् ।170.
मथुरावासिनं श्रुत्वा गोकर्णं स शुकस्तदा
एवं च वदतस्तस्य शबरी शयनोत्थिता
भृत्यैः परिवृतं चारुदर्शनीयस्वरूपकम्
प्रियातिथिं च संप्राप्तं मातः पूज्यतमं शुचिम्
शुकस्य वचनाद्यावत्पूजार्थमुपकल्पितम्
तस्याग्रे तु पुनस्तेन शुकेनातिथिपूजनम्
फलानि मांसयुक्तानि मधूनि सुरभीणि च
इत्युक्तः शबरेणाथ गोकर्णो वाक्यमब्रवीत्
शुकोऽयं पञ्जरस्श्चश्च पुत्रार्थं मे प्रदीयताम्
इत्युक्तमात्रे वचने शबरो वाक्यमब्रवीत् 170.
सरस्वत्याः फले चैव दत्ते दास्यामि ते शुकम्
सरस्वत्याः सङ्गमे च यत्फलं लभते नरः
यत्फलं सङ्गमस्योक्तं शृणुयाद्द्वादशीव्रतम्
यमुद्दिश्य व्रतं कुर्यात्स गच्छेत्परमां गतिम्
नासौ यमपुरं याति विष्णुलोकं च गच्छति
इति श्रीवराहपुराणे गोकर्णसरस्वतीमाहात्म्ये सप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच प्रविश्य गृह्य तत्पुण्यं मातापित्रोस्तदर्पितम्
शुकस्य चरितं सर्वं निवेद्य च महामतिः
सुखं प्राप्तं मतं चापि व्यवहारे च पूजने
पुनस्तत्रैव गमने वणिग्भावे मतिर्गता
आनयिष्ये बहून्यत्र सार्धं रत्नपरीक्षकैः समुद्रयायिभिर्लोकैः संविदं प्रोच्य निर्गतः
पेयाहार समाहारं कृत्वा कृत्यविदार्थकम्
मातापित्रोः शुभा वाचो गृहीत्वा देवतागृहे
पितुः शुश्रूषणं चोक्त्वा सर्वं यूयं करिष्यथ
भवतीभिश्च कृत्यं मे करणीयं यथा तथा
भार्याभिः समनुज्ञातो यानपात्रं गतस्तदा 171.
पोतारूढास्ततः सर्वे पोतवाहैरुपोहिताः