इत्युक्तः स शुकः सर्वं शशंसात्मपुराकृतम्
शुकस्य विप्रियं यादृङ् महर्षेस्तु तपस्यतः
तपश्चचार विपुलं शुको व्याससुतो महान् 170.
ऋषयस्तत्र चाजग्मुरसितो देवलस्तदा
अङ्गिरास्तैत्तिरी रैभ्यः काण्वो मेधातिथिः कृतः
वामदेवश्चाश्वशिरास्त्रिशीर्षो गौतमोदरः
शुकं सम्मुखयामासुः पप्रच्छुर्द्धर्मसंहिताम्
भ्रष्टः श्रद्धान्वितो बाल्यात्सुनीत्यामग्रतश्चरन्
अन्यायवादिनं मां च गुरुर्नित्यं निषेधति
पूर्वपक्षाश्च सिद्धान्ताः परस्परजिगीषवः
एवं निषेधितश्चाहं गुरुणा मुनिसत्तमैः
शुकेन कोपाच्छापो मे दत्तोऽयं जल्पको बटुः
इत्युक्तमात्रे वचने तत्रैवाहं शुकोदरः 170.
मुनयस्तं महात्मानं शुकं तत्त्वार्थवित्तमम्
आगामिकाले दास्यामि वरमस्मै शुकाय भो
अयं भविष्यति सदा सद्भावहितभावनः
मथुरायां मृतः पश्चाद्ब्रह्मलोकं गमिष्यति
मथुरामथुरोच्चारं कुर्वन्नित्यमतन्द्रितः
प्राप्तोऽहं शबरेणैव येनाहं पञ्जरे धृतः
मुनेः प्रसादान्मे ज्ञानं न जहाति कदाचन
स्वस्थो भव महाभाग मा स्म शोके मनः कृथाः
तस्य तद्वचनं हृद्यं शुकमोक्षप्रदायकम्
तस्यां वसाम्यहं भद्र वाणिज्यार्थमिहागतः ।। पुनरिच्छामहे तत्र भाण्डं गृह्य यथासुखम् ।170.
मथुरावासिनं श्रुत्वा गोकर्णं स शुकस्तदा
एवं च वदतस्तस्य शबरी शयनोत्थिता
भृत्यैः परिवृतं चारुदर्शनीयस्वरूपकम्
प्रियातिथिं च संप्राप्तं मातः पूज्यतमं शुचिम्
शुकस्य वचनाद्यावत्पूजार्थमुपकल्पितम्
तस्याग्रे तु पुनस्तेन शुकेनातिथिपूजनम्
फलानि मांसयुक्तानि मधूनि सुरभीणि च