विनियोगः कृतस्तेन सर्वदा सर्वकर्मसु
प्रासादं कारयामास पंचायतनकं हरेः
प्रावर्त्तनं च कूपेषु येन सिंचेत्प्रवाटिकाम् 170.
स्नानं पूजादिकं तद्वन्मार्जनं दीपकर्म च
पतिव्रता महाभागाश्चतुरो भगिनीर्यथा
मालाकारस्तथा नित्यं विटपांश्च प्रसिंचति
जाताः सुपुष्पवन्तश्च द्रुमाः फलसमन्विताः
दीयते भुज्यते सर्वैर्यथा शक्रस्तथा सदा
धनस्य संक्षयो जातः प्रत्यहं ददतः सतः
मातापित्रोः कुटुम्बस्य भरणीयस्य भोजनम्
इति निश्चित्य मनसा वणिग्भावं हृदि स्थिरम्
तत्र क्रीत्वा सुपण्यानि उत्तरापथगानि च
क्रीत्वा क्रेयानि वस्तूनि लाभालाभं विचार्य च 170.
मणिरत्नं ह्यश्वरत्नं पट्टरत्नं समर्थकम्
एकदा सार्थसम्भारो विश्रान्तुमुपचक्रमे
नद्यास्तीरे सुप्रदेशे आवासांश्च प्रचक्रिरे
समादिश्येतिकृत्यं च भृत्यैः कतिपयैर्वृतः
क्रीडार्थं विहरंस्तत्र सोऽपश्यत् स्थानमुत्तमम्
फलवन्तश्च वृक्षाश्च पुष्पाणि सुरभीणि च
तत्रारुह्य दरीद्वारं यावद्दृष्टिर्निपात्यते
श्रुत्वापि शब्दप्रभवं किमेतदिति निश्चयम्
तेनोक्तं भो इहागच्छ आतिथ्यं करवाणि ते
फलानीमानि स्वादूनि मधुमांसोदकानि च 170.
आगत्य पितरौ मह्यं विशेषं तौ करिष्यतः
गृहस्थस्तस्य पितरो वसन्ति नरके ध्रुवम्
अतिथिर्यस्य भग्नाशो गृहात्प्रव्रजते यदि
तस्मात्सर्वप्रयत्नेन पूज्यो वै गृहमेधिना
एवंविधाः शुभा वाचो वैश्यो धर्मोपदेशकात्
ऋषिः कस्त्वं पुराणज्ञः किं वा देवोऽथ गुह्यकः
कस्त्वं कथय मे सत्यमुत्साहश्चातिथिप्रियः