इति तस्य वचः श्रुत्वा सा स्त्री ऋषिमथाब्रवीत्
मम तन्नास्ति हि मुने दुर्भगायाः प्रजासुखम्
देवतायाः प्रसादेन तव पुत्रो भविष्यति
इत्युक्ता सा च सुश्रोणी प्रणिपत्य प्रसाद्य तम् 170.
स तद्वचनमाकर्ण्य प्रीतियुक्तं सुसंयुतम्
ममाप्येतन्मतं देवि यदुक्तमृषिणा ततः
सरस्वत्याः संगमे तौ स्नात्वा गोकर्णमर्चतुः
एवं तयोर्दशाब्दानि गतानि सुतहेतवे
भविष्यति युवां पुत्रो रूपवान्गुणसंयुतः
देवतानां प्रसादेन तदुक्तस्य भविष्यति
प्रभाते देवदेवाय ददौ द्रव्यमनन्तकम्
ततस्तस्यां सुशीलायां गर्भाधानमविन्दत सुषुवे दशमे मासि पुत्रं बालं शशिप्रभम्
गोसहस्रं तदा दत्त्वा ससुवर्णं सवस्त्रकम्
जातकर्म तथा चैव नामकर्म चकार च 170.
एवमन्नप्राशनं च चूडोपनयनं तथा
दानं तु ददतस्तस्य देवतां पूजयिष्यतः
ततः प्रविष्टे तारुण्ये त्वप्रजं वीक्ष्य पुत्रकम्
वयोरूपगुणोपेतास्तस्य भार्याः सुलोचनाः
तेनैव धर्म आरब्धः प्रजार्थो देवसेवनम्
प्रपामालाश्च नित्यान्नं भोजनं वर्त्तनानि च
विनियोगः कृतस्तेन सर्वदा सर्वकर्मसु
प्रासादं कारयामास पंचायतनकं हरेः
प्रावर्त्तनं च कूपेषु येन सिंचेत्प्रवाटिकाम् 170.
स्नानं पूजादिकं तद्वन्मार्जनं दीपकर्म च
पतिव्रता महाभागाश्चतुरो भगिनीर्यथा
मालाकारस्तथा नित्यं विटपांश्च प्रसिंचति
जाताः सुपुष्पवन्तश्च द्रुमाः फलसमन्विताः
दीयते भुज्यते सर्वैर्यथा शक्रस्तथा सदा
धनस्य संक्षयो जातः प्रत्यहं ददतः सतः
मातापित्रोः कुटुम्बस्य भरणीयस्य भोजनम्