श्रीवराह उवाच । एतच्छ्रुत्वा तदा धात्रि पितृतन्त्रं महामुनिः । संस्मारितो जन्मशतं मार्कण्डेयेन धीमता ।। १५.
धरण्युवाच । भगवन् गौरमुखः कोऽसौ अन्यजन्मनि कः स्मृतः । कथं च स्मृतवान् स्मृत्वा किं चकार च सत्तमः ।। १५.
श्रीवराह उवाच । भृगुरासीत् स्वयं साक्षादन्यस्मिन् ब्रह्म जन्मनि । तदन्वयात्मजस्त्वेष मार्कण्डेयो महामुनिः ।। १५.
पुत्रैस्तु बोधिता यूयं सुगतिं प्राप्स्यथेति यत् । प्रागुक्तं ब्रह्मणा तेन मार्कण्डेयेन बोधितः ।। १५.
सस्मार सर्वजन्मानि स्मृत्वा चैव तु यत्कृतम् । तच्छृणुष्व वरारोहे कथयामि समासतः ।। १५.
एवं श्राद्धविधानेन द्वादशाब्दं ततः पितॄन् । इष्ट्वा पश्चाद्धरेः स्तोत्रं स मुनिस्तूपचक्रमे ।। १५.
प्रभासं नाम यत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र दैत्यान्तकं देवं स्तोतुं गौरमुखः स्थितः ।। १५.
गौरमुख उवाच । स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं नारायणं ब्रह्मविदां प्रतिष्ठितम् । आदित्यचन्द्राश्वियुगस्थमाद्यं पुरातनं दैत्यहरं सदा हरिम् ।। १५.
चकार मात्स्यं वपुरात्मनो यः पुराकृतं वेदविनाशकाले । महामहीधृग्वपुरग्रपुच्छ - छटाहवार्च्चिः सुरशत्रुहाद्यः ।। १५.
तथाब्धिमन्थानकृते गिरीन्द्रं दधार यः कौर्म्मवपुः पुराणम् । हितेच्छया यः पुरुषः पुराणः प्रपातु मां दैत्यहरः सुरेशः ।। १५.
महावराहः सततं पृथिव्यास् तलात्तलं प्राविशद् यो महात्मा । यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः स पातु मां दैत्यहरः पुराणः ।। १५.
नृसिंहरूपी च भवत्यजस्त्रं युगे युगे योगिवरोग्रभीमः । करालवक्त्रः कनकाग्रवर्चा रत्नाशयोऽस्मानसुरान्तकोऽव्यात् ।। १५.
बलेर्मखध्वंसकृते महात्मा स्वां गूढतां योगवपुःस्वरूपः । स दण्डकाष्ठाऽजिनलक्षणः पुनः क्षितिं च पदा क्रान्तवान् यः स पातु ।। १५.
त्रिःसप्तकृत्वो जगतीं जिगाय जित्वा ददौ कश्यपाय प्रचण्डः । स जामदग्न्योऽभिजनस्य गोप्ता हिरण्यगर्भोऽसुरहा प्रपातु ।। १५.
चतुःप्रकारं च वपुर्य आद्यं हैरण्यगर्भप्रतिमानलक्ष्यम् । रामादिरूपैर्बहुरूपभेद- श्चकार सोऽस्मानसुरान्तकोऽव्यात् ।। १५.
चाणूरकंसासुरदर्पभीते- र्भीतामराणामभयाय देवः । युगे युगे वासुदेवो बभूव कल्पे भवत्यद्भुतरूपकारी । युगे युगे कल्किनाम्ना महात्मा वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः ।। १५.
सनातनो ब्रह्ममयः पुराणो न यस्य रूपं सुरसिद्धदैत्याः । पश्यन्ति विज्ञानगतिं विहाय अथोप्यनेकानि समर्च्वयन्ति । मत्स्यादिरूपाणि चराणि सोऽव्यात् ।। १५.
नमो नमस्ते पुरुषोत्तमाय पुनश्च भूयोऽपि नमो नमस्ते । नमः पुरस्तादथ पृष्ठतस्ते नयस्व मां मुक्तिपदं नमस्ते ।। १५.
एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः । प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः ।। १५.
तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः । उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते । लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते ।। १५.
धरण्युवाच । तदा दुर्वाससा शप्तो देवराजः शतक्रतुः । वसिष्यसि त्वं मर्त्त्येषु सुप्रतीकसुतेन तु ।। १६.
उत्सादितो दिवो मूढेत्येवमुक्तस्तु भूधर । इन्द्रो मर्त्त्यमुपागम्य सर्वदेवसमन्वितः ।। १६.
किं चकार च तस्मिंस्तु दुर्जये च निपातिते । परमेष्ठिना भगवता तेन योगविदुत्तमौ ।। १६.
स्वर्गे विद्युत्सुविद्युच्च तौ च किं चक्रतुस्तदा । एतन्मे संशयं देव कथयस्व प्रसादतः ।। १६.
श्रीवराह उवाच । दूर्जयेन जितो धात्रि देवराजः शतक्रतुः । भारते हि तदा वर्षे वाराणस्यां तु पूर्वतः । आश्रित्य संस्थितो देवैः सह यक्षमहोरगैः ।। १६.
विद्युत्सुविद्युच्च तदा योगमास्थाय शोभने । दीर्घतापज्वरं वायुकर्मयोगेन संश्रितौ १६.
तं दुर्जयं मृतं श्रुत्वा समुद्रान्तःस्थितं तदा । आनीय चतुरङ्गं तु देवान् प्रति विजग्मतुः ।। १६.
आगत्य तौ तदा दैत्यौ महत्सैन्येन पर्वतम् । हिमवन्तं समाश्रित्य संस्थितौ तु बभूवतुः ।। १६.
देवा अपि महत्सैन्यं संहत्य कृतदंशिताः । मन्त्रयाञ्चक्रुरव्यग्रा ऐन्द्रं पदमभीप्सवः ।। १६.
अब्रवीत् तत्र देवानां गुरुराङ्गिरसो मुनिः । गोमेधेन यजघ्वं वै प्रथमेन तदन्तरम् ।। १६.