गर्त्तेश्वरोऽथ भूतेशो द्वे कोटी तु वसुन्धरे
माथुराणां च यद्रूपं तद्रूपं मे वसुन्धरे 169.
शृणु देवि यथावृत्तं गरुडस्य महात्मनः मथुरायां स्थितं देवं भिन्नरूपं न पश्यति
तदा गतोऽसौ वसुधे देवस्याग्रे विहंगमः
गरुड उवाच जय केशव ईशान जय कृष्ण नमोऽस्तु ते
जय मूर्त जयाचिन्त्य जय लोकविभूषण
गरुडस्य पुरस्तत्र स्थितो देवः शरीरवान्
किं कुर्यात्स्तोत्रमेतन्मे किं वा तव चिकीर्षितम्
गरुड उवाच आगते तु मया देव न दृष्टं तव रूपकम्
माथुरैरेव लोकैस्तु समं दृष्टं हि रूपकम्
तस्मात्स्तुतिस्तु देवेश कृतानुग्रहकाम्यया
उवाच श्लक्ष्णया वाचा गरुडं प्रति भाविनि माथुराणां च यद्रूपं तद्रूपं मे विहंगम ।।169.
ये पापास्ते न पश्यन्ति मद्रूपा माथुरा द्विजाः
गरुडोऽपि ततः स्थानाद्गतो देवि यथासुखम्
येषां पूजितमात्रेण तुष्टोऽहं चैव सर्वदा
अपि कीटः पतंगो वा तिर्यग्योनिगतोऽपि वा
यः पश्येत्पद्मनाभं तु द्वादश्यामाश्विनस्य तु
एकादश्यां चोपवासी कृतशौचः समाहितः
चैत्रस्य शुक्लद्वादश्यामुपोष्य स्नानमाचरेत्
यः करोति स मुच्येत नात्र कार्या विचारणा
महाविद्येश्वरीं देवि मुच्यते ब्रह्महत्यया
स्नानं करोति तस्यां तु ग्रहदाषैर्न लिप्यते 169.
विश्रान्तिसंज्ञकं दृष्ट्वा दीर्घविष्णुं च केशवम्
इति जपविधिहोमध्यानकाले स सम्यक्सततमभिसमीक्ष्य ब्रह्मणा यत्प्रयुक्तम्
इति श्रीवराहपुराणे प्रागितिहासे मथुरामाहात्म्यं नामैकोनसप्तत्यधिकशततमोऽध्यायः
श्रीवराह उवाच मथुरायां पुरा वृत्तं गोकर्णस्य महात्मनः
तस्य भार्या सुशीला तु नाम्ना गुणसमन्विता
विललाप च सुश्रोणि चैकान्ते दीनमानसा
वृक्षमूले तु तत्रैव मुनिरेकः समास्थितः
जात हार्दः प्रियं चेष्टं शनैः स्त्रियमथाब्रवीत्